________________
२४७
षष्ठो वाद्याध्यायः न नयेतर्जनीस्पर्श तन्त्र्याश्चेन्निष्कलं तदा । मुक्ष्मश्चात्र भवेन्नादः सारणामत्र केचन ॥ १०३ ॥ आमध्यमस्वरस्थानं सारणायां प्रपेदिरे । अवोचदिति निःशङ्कः शिष्याभ्यासाय वादनम् ।। १०४ ।। श्रुत्यादिक्रमता गीतनिष्यत्तौ त्विदमादिशेत् । वक्ष्यामः खररन्ध्राणां यद्वंशेऽष्टादशाङ्गुले ।। १०५ ॥ प्रथमे सप्तके स्थानं वीणायामपि तन्मतम् । स्वराणां किंतु वैणानामधराधरतारता ।। १०६ ॥ मध्यमे सप्तके स्थानं ततः स्याद् द्विगुणान्तरम् ।
तृतीये सप्तके स्थानं ततोऽपि द्विगुणान्तरम् ।। १०७ ।। कम्राम् अपनीय अपसार्येत तन्त्र्यां तर्जनीस्पर्श न नयेत् न प्रापयेत् यदि, तदा निष्कलं वाद्यमिति । अत्र ; निष्कले वाद्ये सूक्ष्मो नादो भवेदिति, केचन आचार्याः सारणायां कम्रायां, आमध्यमस्वरस्थानं ; मध्यमस्वरस्थानपर्यन्तं सारणक्रियां प्रपेदिरे अङ्गयकार्षुः ॥ १००-१०३- ॥
(सु०) वाद्यनिरूपणप्रयोजनमाह-अवोचदिति । इदं वादनं शार्ङ्गदेवः शिष्याभ्यासार्थमवोचत् । श्रुत्यादिक्रमेण गीतनिष्पत्तौ इदं वक्ष्यमाणमकथयत् । वक्ष्यमाणमेवाह-वक्ष्याम इति । द्वादशाङ्गुले वंशे प्रथमसप्तके यद् रन्ध्राणां स्थानं वक्ष्यामः तदेव स्वराणां स्थानं वीणायामपि ज्ञातव्यम् । किं त्वयं विशेष:-वीणासंबन्धिनां स्वराणामधराधराणां तारत्वम् ; वेणुवाद्यानामधराधराणां मन्द्रत्वमिति । मध्यम इति । वीणायां मध्यमे सप्तके स्वराणां स्थानम् ; ततः अष्टादशाङ्गुलवंशात् द्विगुणान्तरं कार्यम् । तृतीये सप्तके मध्यमसप्तकात् द्विगुणान्तरं स्वराणां स्थानम् | अङ्कयते चिह्नयते अमूनि स्वरस्थानानि स्वराणां स्थानानि सुखबुद्धये सुखबोधार्थमुपयुज्यन्ते । स्वरदेशानां यथास्वं श्रुतिसंख्याया विभागात् श्रुतिस्थानस्य धीमा॑नम् | चतु:श्रुतीनां स्वराणां स्थानं
Scanned by Gitarth Ganga Research Institute