________________
२४६
संगीतरत्नाकर:
ऊर्ध्वाधोग क्रमाद्धस्तौ रेफकर्तरि काहयौ ।। ९८ ।। निष्कोटिते तले हस्ते द्वावप्युपरिवाद्यके ।
इत्युपरिवाद्यकम् (९)
समस्तहस्तवाद्यं तु वाद्यं पक्षिरुतं मतम् ।। ९९ ॥ इति पक्षिरुतम् (१०)
इति दशविधं वाद्यम्
सकलं निष्कलं चेति द्विविधं वाद्यमुच्यते ।
तन्त्री संलग्नजीवातः स्थूलो यत्र ध्वनिर्भवेत् ।। १०० ।। तदुक्तं सकलं वाद्यमपरे त्वन्यथा जगुः । आधोरिकां पत्रिकां चेत्तर्जनी स्पर्शवर्जितम् ।। १०१ ।। सार्यते कम्रिकावाद्यं तदाहुः सकलाभिधम् । अपनी कलां म्रामधो नैषाददेशतः ।। १०२ ।
(७) स्खलितादयः कराः क्रमेण यत्र क्रियन्ते तद् दण्डकम् ; इति दण्डकम् (८) हस्तौ द्वौ हस्तौ क्रमात् ऊर्ध्वाधोगौ ; दक्षिणहस्त ऊर्ध्वप्रचारवान्, वामहस्त अधः प्रचारवान् ; ततः अनन्तरं दक्षिणो रेफः, वामः कर्तरी; ततो दक्षिणो निष्कोटितः, वामस्तलहस्तः, तदुपरिवाद्यकम् ; इत्युपरिवाद्यकम् ( ९ ) समस्तानां घातादीनां हस्तानां वाद्यं पक्षिरुतम्; इति पक्षिरुतम् (१०) इति दशविधं वाद्यम् ॥ - ८८-९९ ॥
(सु० ) अन्यथा वाद्यभेदानाह - मकलमिति । सकलनिष्कलभेदेन वाद्यं द्विविधम् । तत्र सकलं लक्षयति - तन्त्रीति । तन्त्र्या संलग्नया जीवा वीणावादकप्रसिद्धा, तद्धेतुकः स्थूलो नादो यत्र भवति तत् सकलं वाद्यम् । मतान्तरेण अन्यथा लक्षयति- अपर इति । आधोरिका पत्रिका च यत्र तर्जन्या न स्पृश्यते, कम्रिका च सार्यते तद् वाद्यं सकलमिति । निष्कलवाद्यं लक्षयति-अपनीयेति । अधः नैषाददेशतः निषादप्रदेशात्, कलां कलासंज्ञिकाम्,
Scanned by Gitarth Ganga Research Institute