________________
२५४
संगीतरत्नाकरः अत्रोत्तराधरौ ज्ञेयौ मन्द्रतारौ स्वरौ क्रमात् ॥ १३७ ॥ उत्तराधरघातौ हि तयोनिष्पादकाविह । संघातजे ये चत्वारस्तथाष्टौ समवायजे ॥ १३८ ॥ भेदास्तेऽन्वर्थनामानस्तल्लक्ष्मोक्तिरनर्थिका । तथापि बालवोधाय तान्वयं विवृणीमहे ।। १३९ ।। मन्द्रस्वरद्विरुच्चाराद्धातुरत्र द्विरुत्तरः ।
___ इति द्विरुत्तर: (१) तारस्थाने द्विराघाताद्धातुरिधरो भवेत् ॥ १४० ॥
इति द्विरधरः (२) यस्त्वादितारो मन्द्रान्तः सोऽधराद्युत्तरान्तकः ।
___ इत्यधराद्युत्तरान्तकः (३) आदौ मन्द्रस्ततस्तार उत्तराद्यधरान्तके ॥ १४१ ॥
इत्युत्तरायधारन्तकः (४) एते संघातजे भेदा द्विःप्रहारभवे मताः ।
इति संघातजस्य भेदचतुष्टयम्
(क०) अत्रोत्तराधराविति । अत्र, वीणायाम् , उत्तरस्वरो मन्द्रः, अधरस्वरस्तार इत्यनेन वैपरीत्यं दर्शितं भवति । शरीरे हि अधरो मन्द्रः, उत्तरस्तार इति द्रष्टव्यम् । तत्रोपपत्तिमाह-उत्तराधरघातौ हीति । हि; यस्मात्कारणात् उत्तरतन्त्रीघातो मन्द्रस्वरस्य निष्पादकः, अधरतन्त्रीघातस्तारस्वरस्येत्यर्थः ॥- १३७-१४१- ॥
(सु०) अत्रेति । अत्र उत्तरो मन्द्रः, अधरस्तारः; अत्र उत्तरधातुमन्द्रनिष्पादकः, अधरधातुस्तारनिष्पादक इति । संघातज इति । संघातजे ये
Scanned by Gitarth Ganga Research Institute