________________
२४१
षष्ठो वाद्याध्यायः क्रमाद् द्रुतं नर्घातश्चतुर्भिर्नखकर्तरी ।
___ इति नखकर्तरी (९)
इति नव दक्षिणहस्तव्यापाराः स्फुरिते कम्पिता तन्त्रीपृष्ठलग्नेव सारणा ।। ७५ ॥
___ इति स्फुरितः (१) मुहुः सारणया तन्त्रीघर्षणं खसितो मतः ।
इति खसितः (२)
इति वामहस्तव्यापारद्वयम् तन्त्री लग्नाङ्गुष्ठपार्धा कर्तरीवच्च हन्यते ।। ७६ ॥ कनिष्ठासारणाभ्यां वा यत्रासौ घोष उच्यते ।
___इति घोषः (१) दक्षिणानामया यत्र तन्त्रीरन्तनिहन्यते ॥ ७७ ।। वामस्य मध्यमाङ्गुल्या बहिस्तं रेफमूचिरे ।
इति रेफ: (२) ब्रुवते; इत्यवलेग्वः (१) तन्त्र्या अन्तश्चतसृभिरङ्गुलीभिः क्रमात् शीघ्रं ताडनं भ्रमरः; इति भ्रमर: (६) मध्यमानामिकाभ्यामगुलीभ्यां तन्त्र्या बहिर्घात: मंधित: ; इति संधित: (७) तर्जन्या: पार्श्व श्लिष्टायाः तन्त्र्या अनामिकया बहिः घात: हननं च्छिन्नः; इति छिन्नः (८) चतुर्भिः अङ्गुलीभिः क्रमात् नखैः घात: नखकर्तरी; इति नखकर्तरी (९) इति नव दक्षिणहस्तव्यापाराः ॥ -६९-७४-॥
(सु०) वामहस्तव्यापारद्वयं लक्षयति-स्फुरित इति । तन्त्र्या पृष्ठे लग्ना सारणा कम्पिता इव यत्र स स्फुरित: ; इति स्फुरित: (१) सारणया मुहुः पुनः पुनः, यत्र तन्त्र्याः वर्षणं स: खसितः ; इति खसित: (२) इति वामहस्तव्यापारद्वयम् । त्रयोदशविधमुभयहस्तव्यापारं लक्षयति-तन्त्रीति । यत्र तन्त्री हि; लनाङ्गुष्ठपार्था ; लग्नमङ्गुष्ठपार्श्व यस्याम्, एवंविधा
___31
Scanned by Gitarth Ganga Research Institute