________________
२४०
संगीतरत्नाकरः
घातः केवलया पातः,
इति पात: (२) संलेखोऽन्तस्तया हतिः।
इति संलेखः (३) अन्तर्मध्यमया घातमुल्लेखं संप्रचक्षिरे ॥ ७० ॥
___ इत्युल्लेख: (४) अवलेखो मध्यमया स्यात्तन्त्रीताडनं बहिः ।
इत्यवळेख: (५) अगुल्यान्येऽन्ययाप्याहुरुल्लेखं चावलेखकम् ॥ ७१ ॥ सर्वाभिस्तिमृभिस्ताभ्यामथवेति च ते जगुः । अन्तर्बहिर्मुखौ घातौ तयोस्ते ब्रुवते क्रमात् ।। ७२ ।।
इति मतान्तरेणोल्लेखावलेखौ भ्रमरोऽन्तःक्रमाच्छीघ्रं चतुरङ्गुलिताडनम् ।
इति भ्रमरः (१) मध्यमानामिकाभ्यां तु बहिर्घातोऽत्र संधितः ।। ७३ ॥
इति संधित: (७) तर्जनीपार्श्वलग्नायास्तन्या बहिरनामया। हननं छिन्नमाचष्टे श्रीमत्सोढलनन्दनः ।। ७४ ॥
इति च्छिन्नः (०) संलेखः ; इति संलेखः (३)। मध्यमया अगुल्या तद्वति अन्तर्मध्ये घातमुलेख: ; इत्युल्लेख: (४) । मध्यमया बहिस्तन्त्र्यास्ताडनमवलेख: ; इत्यवलेख: (१)। मतान्तरमाह-अगुल्येति । अन्योन्यसंश्लिष्टया अगुल्या उल्लेखोवलेखको कार्यावित्यन्ये आचार्या आहुः । अथवेति । त एव विकल्पेन सर्वाभिरगुलीभिः तिसृभिर्वाभ्यां वा उल्लेखावलेखको कार्यावित्याहुः । तयोः उल्लेखावलेखयो: क्रमात् अन्तर्बहिर्मुखौ घातौ, उल्लेखे अन्तर्मुखः, अवलेखे बहिर्मुख इत्यन्ये आचार्या
Scanned by Gitarth Ganga Research Institute