________________
षष्ठो वाद्याध्यायः
घातः पातश्च संलेखस्तथोल्लेखावलेखकौ । भ्रमरः संघितच्छिन्नौ नवमी नखकर्तरी ॥ ६५ ॥ व्यापारा दक्षिणस्येति पाणेर्वामस्य तु द्वयम् । स्फुरितः खसितश्चेति करयोरुभयोस्त्वमी ॥ ६६ ॥ घोषो रेफोऽय विन्दुः स्यात्कर्तरी चार्धकर्तरी । निष्कोटिताख्यः स्खलितः शुकवक्त्रश्च मूर्च्छना ॥ ६७ ॥ तलदस्तोऽर्धचन्द्रश्च प्रसारः कुहरोऽपरः । त्रयोदशेति सर्वेऽमी स्युचतुर्विंशतिर्युताः ॥ ६८ ॥ करनामान्यपीमानि मन्वते वाद्यवेदिनः । घातः स्यान्मध्यमाक्रान्ततर्जन्या तन्त्रिकाहतिः ॥ ६९ ॥ इति घातः (१)
२३९
तस्याः क्रिया च सारणेत्युच्यते । सा सारणा चतुर्विधा; उत्क्षिप्ता, संनिविष्टा, उभयी, कम्पितेति । एतासां लक्षणमाह - लिष्टेति । यदा कम्रा तन्त्र्या श्लिष्टा सती तन्त्रीमुद्धृत्य पूर्वस्थानं विमुच्य दूरं गत्वा मुहुः वारं वारं सरेत् सारणान्निपतेत् अधोगच्छेत्; तदा उत्क्षिप्तेत्युच्यते । तन्त्रीं स्पृष्ट्वा विमुच्यैव कम्रायाः सारणात् संनिविष्टा ; द्वयाभ्यासात् क्रमात् अस्पृष्ट्वा स्पृष्ट्वा सारणाभ्यासात् उभयी ; स्वरस्थाने कम्पनात् कम्पितेति । वीणावादने करव्यापारमाह-- घात इति । घातादयो नव व्यापाराः दक्षिणहस्तस्य ; स्फुरितखसितौ द्वौ व्यापारौ वामहस्तस्य । घोषादयस्त्रयोदश व्यापाराः द्वयोर्हस्तयोः, सर्वे मिलिता व्यापाराः चतुर्विंशतिः । न केवलमेतानि हस्तव्यापारनामानि, अपि तु हस्तनामान्यपीति वाद्यवेदिन आहुः ॥ ६२-६८- ॥
(सु०) एतेषां क्रमाल्लक्षणमाह - घातः स्यादिति । मध्यमाङ्गुल्या लिष्टया तर्जन्या तन्त्रिकाया आघातो घात इत्युच्यते ; इति घात: (१) । केवलं तर्जन्या रंहतिः पात: ; इति पात : ( २ ) । तया तर्जन्या अन्तर्मध्ये आहतिः
Scanned by Gitarth Ganga Research Institute