________________
२३६
संगीतरत्नाकर:
वृत्तस्थानस्थया नाभ्याधोमुख्या मध्यरन्धया । त्र्यङ्गुलायतया युक्तं पृष्ठसंश्लिष्टपूर्वया ॥ ४३ ॥ तुम्बकं मध्यरन्धं स्यात्कर्परं नालिकेरजम् ।
अन्तस्थरन्ध्र संलग्नं पृष्ठमध्येन रन्ध्रिणा ॥ ४४ ॥ तं दधद्रन्ध्रमध्येऽथ तन्त्रीप्रान्ते निवेश्य तौ । संवेष्ट कीलकेऽन्तस्थे कीलकं भ्रामयेन्मुहुः ।। ४५ ।। तावद्यावद् दृढो बन्धस्तुम्बकस्यैव जायते । एवं तुम्बकमुत्तानं दण्डे तज्ज्ञैर्निबध्यते ॥ ४६ ॥ दोरकं नागपाशेन द्विगुणेनान्वितं ततः । सुबलश्लक्ष्णसूत्रोत्थं दण्डे तुम्बोर्ध्वदेशतः ।। ४७ ।। संवेष्ट्य नागपाशेऽस्मिन् बद्धान्तां दृढां घनाम् । श्लक्ष्णां स्नायुमयीं तन्त्र कृष्टा संपीड्य पत्रिकाम् ॥ ४८ ॥ तन्त्र्या संवेष्टय ककुभं निबध्नीयाद् दृढं ततः । वैणवी यवविस्तारा तन्त्री द्व्यङ्गुलदैर्घ्यभाक् ॥ ४९ ॥ तन्त्रीपत्रिकयोरन्तर्जीवा नादस्य सिद्धये । संदिग्धपत्रिका तन्त्रश्लेषं क्षेप्या कलावता ।। ५० ।।
(सु० ) षष्टथगुलेति । तुम्बमलांबुम्, षष्ट्यङ्गुलं सुपक्कं वर्तुलं च यद्भवेत्, तस्य वदनम् उत्सेधतः उत्सेधात् द्वादशाङ्गुलं कुर्यात् । तत्तुम्बकं नाभ्या संयुक्तं नालिकेरजं कर्परं दधत् स्यात् । कथंभूतया नाभ्या ? वृत्तस्थाने फलकसंबन्धस्थाने स्थितया, अधोमुखं यस्याः, तथाविधया मध्ये रन्ध्रसंयुक्तया त्र्यङ्गुलेन आयामेन युक्तया तुम्बस्य पृष्ठे संश्लिष्टं पूर्वे यस्या इति । कथंभूतं कर्परम् ? अन्तः सच्छिद्रं रन्ध्रयुक्तं च रन्ध्रं मध्येन दधदिति संबन्धः । तस्य रन्ध्रस्य मध्ये तन्त्रीप्रान्ते निवेश्य अन्तस्थे कीलके संवेष्टय तं कीलकं मुहुस्तावद् भ्रामयेत्, यावत्तुम्बस्य बन्धो दृढो जायते । एवमिति । एवं पूर्वोक्तप्रकारेण
Scanned by Gitarth Ganga Research Institute