________________
२३७
षष्ठो वाद्याध्यायः या पकवेणुवल्कोत्था दोरिका त्रिता शुभा । कनिष्ठाङ्गुलिविस्तारा द्वादशाङ्गुलदैर्घ्यभाक् ॥ ५१ ॥ सुत्ता ममृणा तुम्वादधस्तादगुलत्रये । दण्डे संवेष्टयेन्मन्द्रस्वरस्थानोपलक्षिकाम् ।। ५२ ।। यत्राभिदधिरे धीरास्तां वीणामेकतन्त्रिकाम् । प्रकृतिः सर्ववीणानामेषा श्रीशाङ्गिणोदिता ॥ ५३ ।। दर्शनस्पर्शने चास्या भोगस्वर्गापवर्गदे । पुनीतो विपहत्यादिपातकैः पतितं जनम् ।। ५४ ॥ दण्डः शंभुरुमा तन्त्री ककुभः कमलापतिः । इन्दिरा पत्रिका ब्रह्मा तुम्बं नाभिः सरस्वती ॥ ५५ ।। दोरको वासुकिर्जीवा सुधांशुः सारिका रविः । सर्वदेवमयी तस्माद्वीणेयं सर्वमङ्गला ॥ ५६ ॥ अधस्तुम्बमधोवक्त्रमूर्ध्वं तन्त्री यथा भवेत् ।
उत्तानं तुम्बं तज्ज्ञैः वैणिकैः दण्डे निबध्यते । तत: अनन्तरं सुबलेन लक्ष्णेन सूत्रोत्थं दोरकं द्विगुणेन नागपाशेन अन्वितं तुम्बोर्ध्वप्रदेशे दण्डे संवेष्टय अस्मिन् नागपाशे बद्धप्रान्ते यस्यैवंविधा स्नायुमयीं तन्त्री कृष्ट्वा आकृष्य पत्रिकां च संवेष्टय दृढं ककुभं तया तन्त्र्या निबध्धीयादिति संबन्धः । ततः अनन्तरं वेणुरचिता यवमात्रायामा द्वयगुलदीर्घा वर्तुला तन्त्री स्यात् । तत: तुम्बादधोभागे दण्डे संवेष्टयेत् ; मन्द्राणां स्वराणां स्थानोपलक्षणाय । एवंविधं लक्षणं यस्या विद्यते तां वीणामेकतन्त्रीमित्याहुः । इयं सर्वासां वीणानां प्रकृतिः । अन्यास्वनुक्तं लक्षणमेतस्या गृहीतव्यमित्यर्थः ॥ ४२-५३ ॥
(सु०) एकतन्त्री वीणां स्तौति-दर्शनेति । वीणावादनविन्यासमाहअध इति । अधोमुखं तुम्बम् अधस्तात् द्विधा भवति । तन्त्री चोर्ध्वं भवेत् ।
Scanned by Gitarth Ganga Research Institute