________________
२३५
षष्ठो वाद्याध्यायः षष्टयफुलपरीणाहं सुपकं वर्तुलं च यत् ।
तुम्बस्योत्सेधतस्तस्य वदनं द्वादशाङ्गुलम् ।। ४२ ॥ प्रभेदः कुटिलत्वं ताभ्यां हीनः, श्लक्ष्णो मसृणः, सुवृत्तो वर्तुल:, सरलो दीर्घ:, वितस्ति: परिधिर्यस्य ; एवंविध: खदिरकाष्टोत्पन्नो दण्डो भवेत् । हस्तत्रयं दैर्घ्य यस्य तावद्धस्तत्रयप्रमाणं सुषिरं छिद्रमन्तरा मध्ये दधत् धारयत् ; सार्धा
गुलपरीणाहमिति सुषिरविशेषणम् । ऊर्ध्वमधश्च वदने मुखद्वयं दधदिति संबन्धः। अभग्नमस्फुटितं रन्ध्रत्रयं कनिष्ठागुलिप्रमाणं त्रेताग्निवत् संस्थितं दधत् ; अथवा रन्ध्रद्वयं तर्जनीप्रमाणकं शङ्कुस्थाने अधस्तादेकं रन्धं सार्धा
गुलिप्रमाणकं दधत् दण्डो भवेदिति संबन्ध: । ककुभं वैणिकप्रसिद्धं दधानः, आरैः सह वर्तमानं सारं, खादिरकाष्ठजम्, अन्यकाष्ठजं वा तिर्यक्संस्थितेन पार्श्वस्थेन दैर्येण अष्टाङ्गुलम् , अगुलत्रयविस्तृतम् , अङ्गुलात् किंचिदधिकपार्श्व सार्धागुलपार्श्व सपादाङ्गुलपार्श्व वा कूर्मवत् उन्नता आकृतिर्यस्य ; एवंविधे मध्ये स्थितेन पत्रिकाया आधारभूतेन गर्तेन च समन्वितम् ; गर्तस्य मध्ये च योन्याकारेण रन्ध्रेण संयुक्तेन शकुना युक्तां पत्रिकां धारयन्तम् । कीदृशेन शकुना ? तस्य ककुभस्य रन्ध्रे निविष्टेन रन्ध्र स्थितेन रन्ध्रस्य अस्थौल्यमल्यं यस्य ; कथंभूतां पत्रिकाम् ? कांस्यादिमिश्रेण लोहेन घटितां द्वयगुलायतां चतुरङ्गुलदीर्घा च मध्ये कूर्मवत् उन्नतां मनाक् किंचित् अन्तर्निम्नमध्यम् , एवंविधां पत्रिका बहिर्धारयन्तं ककुभमिति संबन्धः । अथोत्तरार्धस्य मध्यं बिभ्रता शकुना विराजितमष्टाङ्गुलं दैर्घ्य यस्य शङ्को: तथाविधेन वृत्तेन वर्तुलेन द्वयङ्गुलस्थूलमुत्तरार्ध यस्य, श्लक्ष्णा मूर्तिर्यस्य, कथंभूतमुत्तरार्धस्य मध्यम् ? कूर्मपृष्ठवत् उन्नतमिति । दण्डमुखवत् प्रमाणं स्थौल्यं यस्यैवंविधेन अधरभागेन युतेन शङ्कुना, दण्डस्य वक्त्रे प्रविष्ट अधोभागो यस्य ; एवं विधेन शकुना विराजितं ककुभं दधानो दण्डो भवेत् । एवंविधस्येति । एवंविधस्य दण्डस्य अधोभागे नेत्रसदृशं विवरद्वयं विधाय; परत्र रन्ध्रे तु एकद्वित्रिगुणाम् ; एकगुणां द्विगुणां त्रिगुणां वा तन्त्री निक्षिप्य, द्विगुणाकर्षणात् तन्त्री कषेत् आकर्षयेदिति संबन्धः ॥ २९-४१ ॥
Scanned by Gitarth Ganga Research Institute