________________
२३३
षष्ठो वाद्याध्यायः पाटपभववाघानि प्रबन्धानवाद्यसंश्रयान् । मर्दलाख्यं ततो वाद्यं भेदान्मार्दलिकस्य च ॥ २५ ॥ गुणान्दोषांश्च तबृन्दं स्वरूपस्य च लक्षणम् । हुडुक्काधवनद्धानां स्वस्वपाटसमन्वितम् ॥ २६ ॥ घनस्य च गुणान्दोपान वाद्यवादकसंगतान् । हस्तयोश्च गुणानत्र वाद्याध्याये यथाक्रमम् ॥ २७ ॥ अङ्गुष्ठपर्वदैर्ध्य स्यादङ्गुलं द्वादशाङ्गुलम् । वितस्तिस्तद्वयं हस्तो वाद्यभाण्ड मितौ भवेत् ।। २८ ॥ ग्रन्थिव्रणभिदा हीनः श्लक्ष्णः खदिरदारुजः।। सुवृत्तः सरलो दण्डो वितस्तिपरिधिर्भवेत् ।। २९ ।। त्रिहस्तदैर्घ्यस्तावच्च सुषिरं दधदन्तरा। सागुलपरीणाहमूर्ध्वाधो वदने तथा ॥ ३० ॥ कनिष्ठाङ्गुलिमानं वाभग्नं रन्ध्रत्रयं दधत् । त्रेतामिसंस्थितं यद्वा द्वे रन्ध्रे तर्जनीमिते ॥ ३१ ॥
एकमेव त्वधः शङ्कुस्थाने सार्धागुलायतम् । क्रियाकारकसंबन्धो द्रष्टव्यः । वाद्यानां स्वरूपनिरूपणार्थमङ्गुलादिपरिमाणविशेषान् लक्षयति-अङ्गुष्ठपर्वेत्यादिना ।। -२३-२८ ॥
(सु०) अस्मिन्नध्याये अभिधेयान् पदार्थान् संगृह्णाति-तत्रादाविति । परिभाषालक्षणमाह–अङ्गुष्ठेति वाद्यभाण्डादीनां दण्डादीनां च मितौ माने अगुष्ठपर्वदैर्घ्यमगुलं ज्ञातव्यम् । तथाविधैः द्वादशिभिरगुलैर्वितस्ति:, वितस्तिद्वयं हस्त इति ॥ -२३-२८ ॥
(क०) अथैकतन्त्र्यां वीणायां दण्डादिलक्षणकथनपूर्वकनिर्माणप्रकार तत्पवित्रतां चोक्त्वा तद्वादनप्रकारं वामदक्षिणोभयहस्तभेदांस्तदुद्भववाद्यभेदांश्च
Scanned by Gitarth Ganga Research Institute