________________
षष्ठो वाद्याध्यायः
२३१
शुष्कं गीतानुगं नृत्तानुगमन्यद् द्वयानुगम् ॥ १६ ॥ चतुर्थेति मतं वाद्यं तत्र शुष्कं तदुच्यते । यद्विना गीतनृत्ताभ्यां तदोष्ठीत्युच्यते बुधैः ।। १७ ।। ततः परं तु त्रितयं भवेदन्वर्थनामकम् । वाद्यं दक्षाध्वरध्वंसोद्वेगत्यागाय शंभुना ॥ १८ ॥ चक्रे कौतुकतो नन्दिस्वातितुम्बुरुनारदैः । अभिषेके नरेन्द्राणां यात्रायामुत्सवे तथा ॥ १९ ॥ मङ्गलेषु च सर्वेषु विवाहोपनयादिषु ।। उत्पाते संभ्रमे युद्धे नाटके वीररौद्रिणि ।। २० ॥ सर्वातोद्यानि वाद्यन्ते कानिचिचल्पमङ्गले । विश्रान्तौ रङ्गसंस्थानां गायतां नृत्यतामपि ॥ २१ ॥ एतान्युत्साहकारीणि वीराणां मङ्गलाय च । कुवन्ति हृदयस्फूर्ति दुःखमुन्मूलयन्ति च ।। २२ ।।
(क०) स्वरूपतश्चतुर्भेद भिन्नस्य वाद्यस्य प्रयोगभेदेन पुनश्चातुर्विध्यं दर्शयति-शुष्कमित्यादिना ॥ १६, १७ ॥
(सु०) वाद्यस्य पुनश्चातुर्विध्यमाह-शुष्कमिति । वाद्यं चतुर्विधं भवति । शुष्कं, गीतानुगं, नृत्तानुगं, गीतनृत्तानुगमिति । तत्र गीतनृत्ताभ्यां विना स्वतन्त्रं यद्वाद्यते तच्छुष्कम् ; तच लोकैर्गोष्ठीत्युच्यते । गीतानुगादित्रयं सार्थकनामकम । गीतानुगम् ; यद् गीतमनुगच्छति तद्गीतानुगम् । नृत्तानुगम् ; यत् नृत्तमनुसरति तन्नृत्तानुगम् । द्वयानुगम् ; यद् गीतं नृत्तं चानुसरति तद् द्वयानुगमिति ॥१६-१७॥
(क०) वाद्यस्येश्वरकर्तृकत्वं दर्शयति-वाद्यं दक्षाध्वरेत्यादिना । शंभुना प्रयोजकेन, नन्दिस्वात्यादिभिः प्रयोज्यैः चक्रे कारितमित्यर्थः ।
Scanned by Gitarth Ganga Research Institute