________________
संगीतरत्नाकरः वंशः पावः पाविका च मुरली मधुकर्यपि । काहलातुण्डुकिन्यौ च चुक्का शृङ्गमतः परम् ॥ ११ ॥ शङ्खादयश्च वाद्यस्य सुषिरस्य भिदा मताः । पटहो मर्दलश्चाथ हुडुक्का करटा घटः ॥ १२ ॥ घडसो ढवसो ढक्का कुडुक्का कुडुवा तथा। रुञ्जा डमरुको डका मण्डिडक्का च डक्कुली ॥ १३ ।। सेल्लुका झल्लरी भाणस्त्रिाली दुन्दुभिस्तथा। मेरीनिःसाणतुम्बक्यो भेदाः स्युरवनद्धगाः ।। १४ ॥ तालोऽथ कांस्यतालः स्याद्धण्टा च क्षुद्घण्टिका । जयघण्टा ततः कम्रा शुक्तिपट्टादयस्तथा ॥ १५ ॥
प्रभेदा घनवाद्यस्य प्रोक्ताः सोढलमनुना । निःशङ्कवीणेत्याद्याश्चेत्यत्र आद्यशब्देन देशान्तरे सुप्रसिद्धा चान्यापि स्वरवीणा गृह्यते । नि.शङ्कवीणेति स्वनामकरणेन अप्रसिद्धामप्यन्यां स्वबुद्ध्या निर्माय तस्याः स्वेच्छया संज्ञां कुर्यादिति गम्यते । एवं सुधिरादिष्वपि द्रष्टव्यम् ॥ ९, १० ॥
__ (सु०) स्वरवीणाभेदानाह-तद्भेदा इति । तस्याः स्वरवीणाया भेदा एकतन्त्रीनकुलादयो ज्ञातव्याः ॥ ९, १० ॥
(क०) सुषिरादिभेदानुद्दिशति-वंशः पाव इत्यादिना॥११-१५-॥
(सु०) सुषिरवाद्यभेदानाह -- वंश इति । वंशादयः सुषिरभेदाः । अवनद्धभेदानाह–पटह इति । पटहमर्दलादयो भेदा अवनद्धगा: अवनद्धवाद्यसंबन्धिनः । धनभेदानाह-ताल इति । कांस्यतालादयो घनवाद्यभेदाः शार्ङ्गदेवेनोक्ताः ॥ ११-१५- ॥
Scanned by Gitarth Ganga Research Institute