________________
२२९
षष्ठो वाद्याध्यायः ततं वीणा द्विधा सा च श्रुतिस्वरविवेचनात् । तत्र श्रीशाङ्गदेवेन श्रुतिवीणोदिता पुरा ॥ ७ ॥ वक्ष्यते स्वरवीणात्र तस्यामपि विचक्षणाः । अङ्कित्वा स्वरदेशानां भागानुद्भिन्दते श्रुतीः ।। ८ ॥ तद्भेदास्त्वेकतन्त्री स्यान्नकुलश्च त्रितन्त्रिका । चित्रा वीणा विपश्ची च ततः स्यान्मत्तकोकिला ॥९॥
आलापिनी किंनरी च पिनाकीसंज्ञिता परा ।
निःशङ्कवीणेत्याद्याश्च शाहूदेवेन कीर्तिताः ॥ १० ।। तदवनद्धम् । घनो मूर्तिरुच्यते । तन्त्री चर्मादिहीनं कांस्यादिघटितमित्यर्थः । सा मूर्तिः अभिघातात् यत्र ध्वन्यते वाद्यते तद्धनमिति ॥ -५, ६ ॥
(क०) तत्र तद्भेदान् दर्शयितुमाह--ततं वीणेत्यादिना । श्रुतिवीणोदिता पुरेति । स्वरगताध्याय इत्यर्थः । तस्यामपि ; स्वरवीणायामपि ; विचक्षणाः; सूक्ष्मबुद्धयः ; स्वरदेशानाम् ; दण्डादिषु षड्जादिस्वरप्रदेशानाम् ; भागान् ; चतुःसंख्याकादिकान् ; अङ्कित्वा; तत्तच्छ्रुतीनां न्यूनाधिकभावो यथा न भवति तथा चिह्नितान्कृत्वा ; श्रुतीः; उद्भिन्दते तीव्रादिकाः श्रुतीः प्रादुर्भावयन्ति । श्रुतिवीणायां तु स्वराः स्वत एव प्रादुर्भवन्ति ॥ ७, ८ ॥
___(सु०) तद्भेदानाह--ततमिति । वीणा ततमुच्यते । सा द्विधा ; श्रुतिवीणा, स्वरवीणा चेति । तत्र श्रुतिवीणा पूर्वमुक्ता श्रुतिनिरूपणावसरे सारणी प्रस्तावे | स्वरवीणा अधुना वक्ष्यते । तस्यामपि ; स्वरवीणायाम् ; विचक्षणाः ; संगीतमर्मज्ञाः ; स्वरदेशानाम् ; स्वरप्रदेशानां, भागान् ; अवयवान् , अङ्कित्वा; संज्ञान् कृत्वा, श्रुती: उद्भिन्दते ; श्रुत्युदयप्रकारं कुर्वन्तीत्यर्थः ॥ ७-८ ॥
(क०) अथ स्वरवीणाभेदानुद्दिशति--तद्भेदास्त्वित्यादिना ।
Scanned by Gitarth Ganga Research Institute