________________
२२८
संगीतरत्नाकरः
वाद्यन्त्रीतं वाद्यं सुषिरं मतम् ॥ ५ ॥ चर्मावनद्धवदनमवनद्धं तु वाद्यते ।
घनो मूर्तिः साभिघाताद्वायते यत्र तद्धनम् || ६ ||
वाद्यात् लघ्वादिक्रियया संमितं क्रियत इत्यर्थः । एवं चतुर्विधानामपि वाद्यानां गीत एवोपकारकत्वमवगन्तव्यम् ॥ ३४ ॥
(सु०) एवं मङ्गलाचरणं विधाय पूर्वाध्यायैः सह संबन्धमाह - गीत मिति । चतुर्विधात; ततादिलक्षणात् वाद्यात् गीतं जन्यते उत्पाद्यते, उपरज्यते ; रञ्जकं च क्रियते ; मीयते निगद्यते च । यतः यस्मात्कारणात् । अत्र गीतानन्तरं वाद्यं निगद्यते उच्यत इति । अविशेषेण जनोपरञ्जने मानान्युक्तानि । कस्माद्वाद्यात् किं जायत इत्यपेक्षायामाह - ततमिति । ततवाद्यं चतुर्विधम् । ततं, सुषिरम्; अवनद्धं, घनमिति । तत्र पूर्वाभ्यां ततसुषिराभ्यां श्रुतिस्वरादिद्वारेण गीतं भवेत् उत्पाद्यते तद्गीतमवनद्धेन रज्यते अनुरज्यते ; घनात् मीयते गण्यत इति ॥ ३४॥
(क० ) ततादीनां सामान्यलक्षणमाह-वाद्यतन्त्रीत्यादिना । वाद्य वादनीया तन्त्री यस्मिंस्तद्वाद्यतन्त्रीति ततवाद्यस्य लक्षणम् । सुषिरं छिद्रमस्यास्तीति सुषिरमिति सुषिरवाद्यस्य लक्षणम् । चर्मावनद्धवदनमित्यवनद्धवाद्यस्य लक्षणम् । घन इत्यस्य व्याख्यानं मूर्तिरिति । सा ; मूर्तिः । यत्राभिघाताद्वायत इति । यत्र यस्मिन् गीतादौ विषये, अभिघातात् परस्परपीडनाद्धेतोः वाद्यते ध्वन्यते तद्धनमिति, मूर्तिरेव घनमित्यर्थः ॥ ५,६ ॥
( मु० ) ततादिलक्षणमाह - ततमिति । तन्त्र्या ततं विस्तारितं ततमित्युच्यते । सुषिरं सच्छिदं वंशादि । चर्मणा अवनद्धं पिहितं वदनं मुखं यस्य
ततं तन्त्रीततं वाद्यमिति सुधाकरपाठः
Scanned by Gitarth Ganga Research Institute