________________
२२७
__षष्ठो वाद्याध्यायः गीतं चतुर्विधाद्वाद्याजायते चोपरज्यते । मीयते च ततोऽस्माभिर्वाद्यमद्य निगद्यते ॥ ३ ॥ तत्ततं सुपिरं चावनद्धं घनमिति स्मृतम् । चतुर्धा तत्र पूर्वाभ्यां श्रुत्यादिद्वारतो भवेत् ॥ ४ ॥ गीतं ततोऽवनद्धेन रज्यते मीयते घनात् ।
बृहत् विस्तृतमित्यर्थः । मङ्गलाचरणबाहुल्यस्य श्रेयोबाहुल्यहेतुत्वात्पुनरपि मङ्गलमाचरति-चित्रा इति । तं शिवं नौमि स्तौमि च । विस्तारेण तत्त्वेषु प्रकृत्यादिषु चतुर्विशतौ अनुगतमनुस्यूतम् । ततश्च चित्रा विचित्रिता वाचः वेदरूपा: प्रवर्तन्ते । धातवः सप्त त्वगादयः, तेषां वृत्तिर्व्यापारविशेषः, तेन विचित्रिता: । अथवा धातवः कफादयः, तद्वृत्त्या विचित्रिता इति । पक्षे शिवं कल्याणरूपं वाद्यं नौमि । विस्तीर्णनादभेदत्वात् , 'विस्तीर्णनादभेदत्वात् विस्तारो धातुरुच्यते' इति वक्ष्यमाणो विस्तारः, तत्त्वमोघश्च गीतानुगवाद्यभेदौ वक्ष्यमाणो, तदनुगतम् । यत: वाद्यात् विचित्रिता वाचो वाद्याक्षराणि प्रवर्तन्ते । अथवा चित्रा वृत्तिर्वक्ष्यमाणस्य वाचः शब्दाः, किंभूताः ? धातुवृत्तिविचित्रिताः; 'ये प्रहारविशेषोत्था: स्वरास्ते धातवो मताः ।' 'वृत्तिर्गुणप्रधानत्वरूपा व्यवहृतिर्मता ।' इति च वक्ष्यमाणः । ते: विचित्रिता इति संबन्धः ॥ १, २ ॥
(क) अत्र गीतप्रकरणानन्तरं वाद्यप्रतिपादने सोपपत्तिको सङ्गति दर्शयति-गीतं चतुर्विधादित्यादिना। तत्र पूर्वाभ्यामिति । तत्र; सुषिरावनद्धधनेषु मध्ये, पूर्वाभ्यां ततसुषिराभ्याम् । श्रुत्यादिद्वारत इति । अत्रादिशब्देन स्वरमूर्छनाक्रमतानालंकारजातिगीतयो गृह्यन्ते । श्रुत्यादय एव द्वारं मुखं तस्मात् गीतं भवेत् , संगीतमुत्पद्यत इत्यर्थः । ततः ; अनन्तरमुक्तं गीतम् अवनद्धेन रज्यते । तत्र तत्र नादसाम्यं यथा भवति तथा ध्वननेन रक्तातिशययुक्तं क्रियत इत्यर्थः । घनात मीयत इति । धन
Scanned by Gitarth Ganga Research Institute