________________
२२६
संगीतरत्नाकरः
प्रागेव पिण्डोत्पत्तिप्रकरणे 'चेतनस्थानम्' इत्यत्र प्रतिपादितम् । अध्येमि ; स्मरामीति संबन्धः । अत्र ततावनद्धघन सुषिरशब्दैर्वक्ष्यमाणा वाद्यभेदा ध्वन्यन्ते । चित्रा वाच इति । धातुवृत्तिविचित्रिता इति । धातवो भूवादयः, वृत्तयः समासा वा अभिधागौण्यादयो वा । धातुभिर्वृत्तिभिश्च विचित्रिता: चित्रा वाचः । विविधानि वाक्यानि वेदादीनि यतः शिवात् प्रवर्तन्ते । तेन कारणेन कर्तृत्वेन वा प्रवक्तृत्वेन वा कारणभूतादित्यर्थः । विस्तारतन्त्रौघानुगतमिति । विस्तारवान् विस्तारः, तत्त्वानां महदादीनाम्, ओघः समूहः । विस्तारश्चासौ तत्त्वौघश्च तेनानुगतम् । तदुत्पत्तिस्थितिलयाधिष्ठानत्वात्तमनुगतो वा । तच्छब्दात् ; " तत्सृष्ट्रा तदेवानुप्राविशत् " ( तै० उ० २ - ६ ) इति श्रुतेः । तं शिवं नौमीति संबन्धः । अत्र धात्वादिभिः शब्दैर्वक्ष्यमाणा वाद्यविधयो ध्वन्यन्ते ॥ १, २ ॥
"
(सु० ) एवं पञ्चमाध्याये सपरिकरं गीतमुक्तम् । भतो वक्ष्यमाणयोर्वाद्यनृत्तयोर्मध्ये वाद्यानुगान्नृत्ताद्वाद्यस्य प्रधानत्वाद्गीतानुगामित्वाच्च गीताभिव्यक्तिहेतुत्वाच्च वीणाद्यैर्गीतानन्तरं वाद्यं विवक्षुर्मङ्गलमाचरन्नभिधेयमभिव्यनक्ति - ततमिति । तम् ; शिवं हरम् अध्येमि स्मरामि । " इक् स्मरणे" (धा० अ० १०४७) इत्यनेनाधिपूर्वस्येकः स्मरणार्थत्वात् । कुत्र स्मरामि ? ब्रह्मसुषिरे ; ब्रह्मरन्ध्रे ; तद्धयुपासनस्थानं परमेश्वरस्य । कथं भूतम् ? आनन्दघनम् ; आनन्देन घनं व्याप्तम् । अथवा आनन्दः सुखरूपश्वासौ घनः कूटस्थश्च तथाविधं तम्, कम्? येन भुवनं जगत् ततं व्याप्तम् । अवनद्धम् अन्तरपि स्यूतम् । ननु कथं तस्य नियामकस्य व्याध्यादिः संभवति ? अत आह— निजमाययेति । मायिका एवैते धर्माः, न तु तात्त्विकाः । " आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः " इति पञ्चपादिकाचार्यवचनात् । पक्षे अहं वाद्यम् अध्येमि स्मरामि । अभिधातुमभिलषामीत्यर्थः । शिवं ; कल्याणरूपम्, येन; वाद्येन, ततं वीणादिकम्, अवनद्धम् मुरजादिकं च प्रसिद्धमिति शेषः । आनन्ददायकं घनं कांस्यतालादिकं च, सुषिरं वंशादिकं वाद्यम् । निजमायया ; निजप्रपञ्चेन, ब्रह्म,
I
Scanned by Gitarth Ganga Research Institute