________________
शिवाभ्यां नमः श्री-निःशङ्कशादेव प्रणीतः
संगीतरत्नाकरः चतुरकल्लिनाथ-विरचितया कलानिध्याख्यटीकया सिंहभूपालविरचितया संगीतसुधाकराख्यटीकया च समेत:
षष्ठो वाद्याध्यायः ततं येनावनद्धं च भुवनं निजमायया । आनन्दघनमध्येमि तं ब्रह्मसुषिरे हरम् ॥ १॥ चित्रा वाचः प्रवर्तन्ते धातुतिविचित्रिताः । यतस्तं नौमि विस्तारतचौघानुगतं शिवम् ॥ २॥
(क०) अथ गीतोपयोगित्वेन तदनन्तरोद्दिष्टस्य वाद्यस्य प्रकरणमारभमाणस्तावदादौ समुचितेष्टदेवतां स्मृत्वा स्तौति-ततं येनेत्यादिना श्लोकद्वयेन । येन ; परमेश्वग्ण क; ; निजमायया करणभूतया, भुवनं ततं विस्तारतम् । अवनद्धं च बद्धं च । आनन्दघनम् ; निरतिशयानन्दस्वरूपम् । तम्; हरम् । ब्रह्मसुषिरे; हृत्पङ्कजे, हृत्पङ्कजस्य ब्रह्मसुषिरत्वं
20
Scanned by Gitarth Ganga Research Institute