________________
२२२
संगीतरत्नाकरः द्रुतो लघुर्गुरुर्बान्त्यैरबैलब्धः प्लुती भवेत् ॥ ४०६ ।। तदकाधस्तनैः सार्धमङ्कषट्कमतीत्य च । अधःपङ्क्तौ स्थितैरकैः शेषैरेष पुनर्विधिः ॥ ४०७ ॥ पङ्क्तौ तु प्लुतहीनायां नान्तिमः प्लुततां व्रजेत् ।
___ इति प्लुतमेरुपरपङ्क्तिनष्टम् अधोगमनमुक्तं तथात्र प्लुते पूर्णे लब्धे सतीत्यर्थः । अधो गच्छेदिति । आद्याधस्तनतः क्रियां कुर्यादित्यर्थः । अथ प्लुते पूर्ण इत्येतदावृत्त्या अपूर्ण इति पदं विभज्य व्याख्येयम् । प्लुतेऽपूर्णेऽलब्धे सति अन्त्याङ्कन लब्धो द्रुतो लघुर्गुरुर्वा प्लुती भवेदिति, प्लुतः कर्तव्य इत्यर्थः । अथवा प्लुतो भवेदित्यनेनैव पूर्व प्लुतन लब्ध इति गम्यते । पङ्क्तौ तु प्लुतहीनायामिति । आद्याधस्तनपङ्क्तावित्यर्थः । नान्तिमः प्लुततां व्रजेदिति । अन्तिमोऽकलब्धो द्रुतादिः प्लुतो न भवतीत्यर्थः ॥ -४०५-४०७- ।।
___ इति प्लुतमेरुपरपङ्क्तिनष्टम (सु०) द्वितीयादिषु परपङ्क्तिषु विशेषमाह-शेष इति । अधोगच्छेदिति । प्लुते पूर्ण सति अधोगच्छेत् अध:पङ्क्तिमारभ्य विधानं कुर्यादिति । यथा गुरुमेरौ गुरौ लब्धे अधःपङ्क्तितः क्रिया अन्त्यैरकैः लघुर्वा गुरुर्वा लब्धः प्लुतो भवेत् । तत: तस्य अङ्कस्य अध:स्थितैः अझैः सह अङ्कषट्कमतीत्य प्लुतो भवतीति संबन्धः । शेषैः स्थितैः अङ्क: अधःपङ्क्तौ तु पुनर्विधिः ; तत्र प्लुतहीनायां सर्वाध.पङ्क्तौ अन्तिमः प्लुतो न भवति । यथा अष्टद्रुतप्रस्तारे पञ्च एकप्लुताः, तत्र प्रथमे भेदे पृष्टे एकाङ्कहीन अन्त्याङ्क अवशिष्टेषु चतुर्षु पूर्वो द्वयङ्कः एकाङ्कश्च पतिते, निरन्तरपतितात् द्रुत: अन्त्यैरकै: लब्धत्वात् षड्भिरकैः गुरोः प्लुतत्वं, ततोऽध:पङ्क्तौ पुनर्विधाने क्रियमाणे एकाङ्के पतिते लघुः, ततो लघु: प्लुतश्च प्रथमो भेद इति ॥ ४०५-४०७ ॥
इति प्लुतमेरुपरपक्तिनष्टम्
Scanned by Gitarth Ganga Research Institute