________________
पचमस्तालाध्यायः
समस्तनष्टवनष्टं प्लुतमेरावुदाहृतम् । इति प्लुतमेरुष्टम्
विशेषः कथ्यते त्वेष द्वितीयादिषु पङ्क्तिषु ॥ ४०५ ।। अधो गच्छेत्प्लुते पूर्णे गुरुमेरौ गुराविव ।
२२१
-
(सु० ) गुरुमेरोः परपङ्क्तिनष्टमाह — परपङ्क्तिष्विति । लघुमेरुनष्टवत् सर्वम् । किंतु लघुमेरौ तृतीयस्याधस्तनोऽङ्कः पात्यते । अत्र तस्य स्थाने तृतीयोऽङ्कः पात्यते । पञ्चमस्य स्थाने पञ्चमस्याधस्तनाङ्कः पात्यः । लघुमेरौ घौ लब्धे यथा अधोगमनम् ; तथात्र गुरुमेरौ गुरौ लब्धे अधोगमनं शेषात् विधानम् । अङ्काभावेऽपि यथा अधस्तनश्रेणिसंख्या लघवः लघुमेरौ प्राप्यन्ते, तथात्र गुरवः प्राप्यन्त इति । यथा षड्गुतप्रस्तारे एकगुरवः पञ्चभेदाः, तत्र प्रथमे भेदे पृष्टे अन्त्यामध्ये एकाङ्कपतिते, अवशिष्टेषु चतुर्षु पूर्वो द्वयङ्कः, एकाङ्कश्च पतिते गुरुर्लब्धः, लब्धे गुरौ आद्यात् त्रिषट्तादङ्कादारभ्य क्रियायां क्रियमाणायामेकाङ्के लब्धे पतिते लघुर्लब्ध: । ततश्च लघुर्गुरुश्च प्रथमो मेद इति ॥ - ४०२ - ४०४ ॥
इति गुरुमेरुनष्टम् । इति गुरुमेरुपरपङ्क्तिनष्टम्
(क० ) अथ प्लुतमेरुनष्टं लक्षयति-- समस्तनष्टवदित्यादिना । प्लुतमेरोरधः पङ्क्तौ नष्टं सर्वनष्टवद्रष्टव्यमित्यर्थः ॥ ४०४-॥ इति प्लुतमेरुनष्टम्
(सु० ) प्लुतमेरुनष्टं निरूपयति - समस्तेति । साधारणनष्टवत् प्लुतमेरुनष्टं ज्ञातव्यम् ॥ ४०४- ॥
इति रुष्टम्
(क० ) द्वितीयादिषु परपङ्क्तिषु विशेषं दर्शयति--अधो गच्छेदित्यादिना । गुरुमेरौ गुराविवेति । गुरुमेरौ गुरौ लब्धे यथा
Scanned by Gitarth Ganga Research Institute