________________
२२०
संगीतरत्नाकरः
परपङ्क्तिवथोच्यते ।। ४०२ ।। तृतीयाधस्तनस्थाने तृतीयोऽङ्कोऽत्र पात्यते । स्थाने तु पश्चमस्याधः पश्चमो लघुवद्गुरौ ।। ४०३ ।। लब्धेऽधोव्रजनं' शेषाल्लघुवद्गुरुलम्भनम् । लघुमेरुवदन्यत्तु नष्टे स्यात्परपङ्क्तिः ।। ४०४ ॥
___इति गुरुमेरुनष्टम् (सु०) गुरुमेर्वध:पङ्क्तिनष्टमाह-गुरुमेरोरिति । गुरुमेरोः अध:पङ्क्तौ सकलनष्टवत् नष्टं कार्यम् । प्लुतलाभस्तु गुरुवदिति । यथा लघुमेरो: अध:पङ्क्तौ पतितात् गुरुर्लब्धः, तथा गुरुमेरो: अध:पङ्क्तौ निरन्तरपतिताभ्यां प्लुतो लभ्यत इति । यथा षड्द्भुतप्रस्तारे गुरुहीनाश्चतुर्दश भेदा:, तत्र प्रथमभेदे पृष्टे अन्त्याङ्कमध्ये एकाङ्के पातिते, अवशिष्टेषु त्रयोदशसु पूर्वोऽष्टाङ्कः पञ्चाङ्कश्च पतितौ गुरौ लब्धव्ये, प्लुतो गुरुभवेदित्यनेन प्लुतः प्राप्तिरिति ॥ ४०१ ॥
इति गुरुमेर्वधःपङ्क्तिनष्टम् (क०) अथ गुरुमेरुपरपङ्क्तिषु नष्टमाह-परपङ्क्तिष्विति । लघुवदगुरौ लब्ध इति । लघुमेरौ परपङ्क्तिघु लघौ लब्धे यथा आद्याधस्तनतः क्रिया कृता, तथात्र गुरौ लब्धे सति । शेषादधोव्रजनमिति । शेषादिति ल्यव्लोपे पञ्चमी । शेषमधिष्ठाय आद्याधस्तनतः क्रिया कर्तव्येत्यर्थः । लघुवद्गुरुलम्भनमिति । लघुमेरोरपरपङ्क्तिषु पतितात् यथा लघुप्राप्तिः, तथात्र पतिताद्गुरुप्राप्तिरित्यर्थः । शिष्टं लघुमेरुवद्रष्टव्यमित्याह-लघुमेरुवदिति ॥ -४०२-४०४ ॥
इति गुरुमेरुनष्टम् । इति गुरुमेरुपरपक्तिनष्टम 1 अधोगमनमिति सुधाकरपाठः.
Scanned by Gitarth Ganga Research Institute