________________
पश्चमस्तालाध्यायः
२१९
गुरुमेरोरधःपङ्क्तौ नष्टं सकलनष्टवत् । प्लुतलाभस्तु गुरुवत् ,
इति गुरुमेर्वधःपङ्क्तिनष्टम लघवो मता इति । तत्तद्भेदानुगुण्यनैकद्वयादयो लघवो ग्राह्या इत्यर्थः । इममेवाथै स्वष्टीकर्तुमुक्तम् , ' अधस्तनश्रेणिसंख्या ' इति लघव इत्यस्य विशेषणम् । नष्टाङ्कश्रिताङ्केऽधस्तनी श्रेणिरेका चेद् ; एको लघुर्माह्यः, द्वे चेलौ, तिस्रश्चेत्त्रय इत्यादि द्रष्टव्यम् ॥ ३९८-४०१ ॥
___ इति लघुमेरुपरपङ्क्तिनष्टम् (सु०) लघुमेरौ परपङ्क्तीनां नष्टमाह-नष्टे त्विति । पतितनष्टाश्रावशेषे प्रातिलोम्यत: पूर्वपूर्वद्वितीयतृतीयस्याधस्तनं पश्चमाकं पातयेत् । रूपपूर्ती पूर्ववत् । अङ्कनिवृत्तौ जातायां पुनरप्येष एव विधिः कार्य: । द्रुतादे: प्राप्तिस्तु समस्तनष्टवत् । किं त्वयं विशेष:-लघौ लब्धे शेषेषु अवशिष्टेषु य आद्यः, तस्य अध:स्थितादात् विधि: ; सोऽध:स्थितावङ्कः, स्वपङ्क्तिस्थविधि ; स्वपङ्क्तौ योऽङ्को विहितः, तमेव प्रवर्तयेत् । अङ्काश्रितपङ्क्त्यकाभावे तु; अधस्तनश्रेण्यो यावत्यः, तावत्संख्याका लघवो ज्ञातव्याः । यथा षड् द्रुतप्रस्तारे एकलघवः सप्त भेदाः; तेषु प्रथमो भेदः कीदृगिति प्रश्ने अन्त्यसप्ताङ्कमध्ये एकाङ्के पातिते अवशिष्टेषु षट्सु द्वितीयः चतुरङ्कः, तृतीयाधस्तनो द्वयङ्कश्च पातिते, निरन्तरपतितत्वात् गुरुः, अङ्काभावे लघुः, ततश्च लघुर्गुरुश्च प्रथमो भेद इति ॥ ३९८-४०१ ॥
इति लघुमेरुपरपङक्तिनष्टम् (क०) अथ गुरुमेर्वधःपङ्क्तिनष्टमाह-गुरुमेरोरित्यादिना । प्लुतलाभस्तु गुरुवदिति । यथा लघुमेरोरध:पङ्क्तौ पतिताद्गुरुर्लब्धः, तथा गुरुमेरोरधःपङ्क्तौ निरन्तरपतिताभ्यां प्लुतो लभ्यत इत्यर्थः ॥४०१-॥
इति गुरुमेर्वध:पक्तिनष्टम
Scanned by Gitarth Ganga Research Institute