________________
२१८
संगीतरत्नाकर:
नष्टे तु परपङ्क्तीनां पातयेत्मातिलोम्यतः । द्वितीयं च तृतीयाधस्तनमङ्कं च पञ्चमम् ।। ३९८ ॥ परेषु च निवृत्तेषु शेषेष्वेष पुनर्विधिः । समस्तनष्टवच्चात्र द्रुतादेः प्राप्तिरिष्यते ॥ ३९९ ॥ किंतु लब्धे लघौ शेषेष्वाद्याधस्तनतः क्रिया । सोऽधस्तनः स्वपङ्क्तिस्थविधिमेवं प्रवर्तयेत् ॥ ४०० ॥ शेषेऽङ्काश्रितपङ्क्त्यङ्काभावे तु लघवो मताः । अधस्तनश्रेणिसंख्या नष्टस्यैष विधिः स्मृतः || ४०१ ॥ इति लघुमेरुनम्
( क ० ) अथ लघुमेरुपरपङ्क्तीनां नष्टमाह - नष्टे त्वित्यादिना । प्रातिलोम्यतः पातयेदिति । अत्र प्रातिलोभ्यशब्देन द्वितीयतृतीयाधस्तनपञ्चमाङ्केषु पात्येषु क्वचिदनुपपत्त्या तृतीयाङ्कपातनम् । किंच 'समस्तनष्टवात्र द्रुतादेः प्राप्तिरिष्यते इति शेषेष्वाद्याधस्तनतः क्रियेति सोऽधस्तनः स्वपङ्क्तिस्थ विधिमेवं प्रवर्तयेदिति चातिदेक्ष्यमाणेष्वर्थेषु कचिदनुपपत्त्या अन्यथाकरणं च विवक्षितम् । तत्र कानुपपत्तिरिति चेत्; उच्यते - प्रस्तुतैकलध्वादिभेदनियमभङ्ग एवानुपपत्तिः, सा मा भूदिति प्रातिलोम्याश्रयणं कर्तव्यमित्यर्थः । आद्याधस्तनत इति । आद्यायां तिर्यक्पङ्क्तौ स्थितात् लघुहेतोरधस्तन इत्यर्थः । अत्र आद्यग्रहणाभावे तृतीयादितिर्यक्पङ्क्तिपु द्वितीयादितिर्यक्पङ्क्तिम्थोऽप्यधस्तनया न प्राप्नोति । अतः कर्तव्यमाद्यग्रहणम् । शेषेऽङ्काश्रितपङ्क्त्यङ्काभावे तु लघवो मता इति । अङ्काश्रितपङ्क्त्यङ्काभावे पातयोग्यैरक्राश्रितश्चासौ पङ्क्त्यङ्कश्च तत्तन्नष्टभेदोचितपङ्क्तौ तत्तत्तालापेक्षया अन्त्याक इति यावत् । तस्याङ्कस्याभावे तु शेषे । तत्तन्नष्टभेदस्वरूप लेखने वामसंस्थत्वेन प्रवृत्ते सति चरमभाग इत्यर्थः ।
Scanned by Gitarth Ganga Research Institute