________________
पथामस्तालाध्यायः
पतिते वृत्तगुर्वङ्कानन्तरे गः प्लुती भवेत् ।
एवं नष्टस्य बोधः स्यादित्युक्तं सूरिशाङ्गिणा ।। ३९७ ॥ इति लघुमेर्वधः पङ्क्तिःनष्टम्
२१७
1
ताभ्यां द्वौ द्रुतौ, त्रिभ्यस्त्रयो द्रुता इत्यादि द्रष्टव्यम् । पतितात्सह पूर्वाभ्यां परेण च गुरुर्भवेदिति । अत्र तु पतितादङ्काद्गुरुर्लभ्यो भवति । किंविघात् ? पूर्वाभ्यां परेण च सहितात् । एतेन च 'गुरुलाभे चतुरङ्की निवर्तते ' इत्युक्तं भवति । अस्यां पङ्क्तौ लघुहीनानामेवोपक्रान्तत्वात्पतितादपि न लघुर्लभ्यते । किंतु गुरुरेव लभ्यत इत्यत्र विशेषः । वृत्तगुर्वङ्कानन्तर इति । वृत्तो निप्पन्नो गुरुर्येभ्यः, तैर्वृत्तगुरवः, ते च तेऽङ्काः, तेभ्योऽनन्तरे संनिहिते गुरुहेतुभ्यश्चतुभ्यो॑ ऽङ्केभ्यः पूर्वस्मिन्नित्यर्थः । तस्मिन् पतिते सति, गः गुरुः प्लुती भवेत् । स एव गुरुः प्लुतः कर्तव्य इत्यर्थः ॥ -३९५-३९७ ॥
इति लघुमेर्वधःपङ्क्तिनष्टम्
(सु० ) लघुमेरुनष्टं लक्षयति - लघुमेराविति । अधःपङ्क्तेः नष्टाङ्केन ऊनः योऽन्त्योऽङ्कः, तस्य शेषतः शेषे, पूर्वेषामङ्कानां पात्यमानानां मध्ये अपतितात् अङ्कात् द्रुतो लभ्यते । पतितात् पूर्वाभ्यां द्वाभ्यामङ्काभ्यां परेण एकेनाङ्केन च सह गुरुर्भवति । वृत्तगुर्वङ्कानन्तर इति; वृत्तो निष्पन्नो गुरु: येभ्यस्ते वृत्तगुरवः, ते च तेऽङ्काः, तेभ्योऽनन्तरे संनिहिते; गः गुरुः, प्लुती भवेत् । षड्गुतप्रस्तारे लघुहीनाः पञ्च भेदाः । तत्र प्रथमो भेदः कीदृगिति प्रश्ने पञ्चाङ्कमध्ये एकाङ्के पातिते सति, अवशिष्टेषु चतुर्षु पूर्व: त्र्यङ्कः पतितः, चतुर्गुरौ जाते, अनन्तरे एकाङ्के च पतिते गुरुः प्लुतो जातः । षड्गुतप्रस्तारे लघुहीनेषु प्लुतः प्रथमो भेद इति ॥ - ३९५-३९७ ॥
इति लघुमेर्वधः पङ्क्तिनष्टम्
28
Scanned by Gitarth Ganga Research Institute