________________
पचमस्तालाध्यायः सर्वोद्दिष्टवदुद्दिष्टं लघुमेर्वादिषु त्रिषु ॥ ४०८ ॥
इति लघुमेर्वादिमेस्त्रयोदिष्टम् इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्क
शार्ङ्गदेवविरचिते संगीतरत्नाकरे पश्चमस्तालध्यायः ॥ ५ ॥
(क०) लघुमेर्वादिमेरुत्रयोद्दिष्टमाह-सर्वोद्दिष्टवदिति । 'यैरकैः पतितैनष्टः' इत्यत्र यदुक्तं तदेव सर्वत्रानुसंधेयमित्यर्थः ।। -४०८ ॥
इति लघुमेर्वादिमेरुत्रयोहिष्टम् एवं व्याकुर्वता सम्यङ्मार्गदेशीविभागतः ।
यस्तालप्रत्ययः कल्लिनाथेन निरणायि सः ॥ इति श्रीमदभिनवभरताचार्यरायवयकारतोडरमल्लश्रीलक्ष्मणाचार्यनन्दनचतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ पञ्चमोऽध्यायः ॥ ५ ॥
(सु०) लघ्वादिमेरूणामुद्दिष्टमाह-सर्वेति । सर्वसाधारणोद्दिष्टवत् लघ्वादिमेरुद्दिष्टं ज्ञातव्यम् ॥ -४०८ ॥
इति लघुमेर्वादिमेरुत्रयोद्दिष्टम् इति श्रीमदन्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीअनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां
सुधाकराख्यायां पञ्चमस्तालाध्याय: समाप्तः ।।
Scanned by Gitarth Ganga Research Institute