________________
पश्वमस्तालाध्यायः
यैरङ्गैः परितैर्नष्ठैर्लभ्यन्ते ये प्लुतादयः । तेभ्य उद्दिष्टसंस्थेभ्यस्तदङ्कावाप्तिरिष्यते ।। ३९३ । द्रुतहीनाद्यकोष्ठासु पक्तिपूर्ध्वासु यो लघुः । तस्मादुद्दिष्टरूपस्थान्नाङ्कः कश्चिदवाप्यते ।। ३९४ ॥
२१५
(सु० ) अथान्यासां पङ्क्तीनां नष्टमाह-कोष्ठ इति । समोर्ध्वपङ्क्तिस्य इति; द्वितीयचतुर्थादिः, तत्र स्थिते; परासाम्; अन्यासां पङ्क्तीनाम्; कोष्ठे द्वितीयाङ्कात् अधस्तनः, अधिक: ; उपान्त्यः, तृतीयपञ्चमावित्यादि अधस्तनवत् । एवंच अपतितात् द्रुतो लभ्यते, ततः पतितात् लघुर्लभ्यते । उपान्त्यानां पतितयोः, आनन्तर्य नैरन्तर्यन्यायेन अष्टौ महान् भवेत् । लघुर्गुरुश्च प्लुत इति । रूपपूर्ती ; रूपस्य लघ्वादिस्वरूपस्य, पूर्वौ परिपूरणे सति, स्वीयपङ्क्तिगा या अङ्काः पूर्ववत् अधः पङ्क्तिवत् निवर्तन्ते । लघावङ्कद्वयम् ; गुरावङ्कचतुष्टयम्; प्लुते अङ्कषट्कमिति । अन्यत्सर्वमधः पङ्क्तिसमकोष्ठनष्टवत् । अङ्कनिवृत्तौ तु पुनर्विधानम् । परं तु स पुनर्विधिः यस्मात्, तस्मात् कोष्टकात् कर्तत्र्यः, स कोष्टकः यस्यां पङ्क्तौ विद्यते सा पङ्क्तिः यदि विषमा, विषमकोष्ठोक्तो विधिः, यदि समा चेत्, अयमेव विधिः विषमासु ऊर्ध्वश्रेणीषु विद्यमाने कोठे अधः पङ्क्तिविषमकोष्ठनष्टपरिज्ञानवद्विधिः कर्तव्यः । यथा षद्रुतप्रस्तारे नव भेदाः संभवन्ति । तत्र प्रथमो भेदः कीदृगिति प्रश्ने, नवसंख्यायामेकाङ्के पातिते, अवशिष्टेन्वष्टसु द्वितीयाधस्तनः पञ्चाङ्कः तृतीयाङ्कश्च पातित: ; पूर्वपतितात् लघुर्जातः । उपान्यपातानन्तर्यात् स एव लघुः महान् गुरुर्जातः । ततश्च द्रुतद्वयं गुरुश्च प्रथमो भेद इति ॥ ३८९-३९२ ॥ इति द्रुतमेरुपरपङ्क्तिनष्टम्
(क०) अथ द्रुतमेरुपरपङ्क्त्युद्दिष्टं लक्षयति-यैरङ्गैरित्यादिना । द्रुहनाकोठाविति । तेन हीना द्रुतहीना आद्यकोष्ठा यासां तास्तथोक्ताः, तासूर्ध्वासु पङ्क्तिषु । यो लघुरिति । उद्दिष्टभेदस्थ इत्यर्थः ।
Scanned by Gitarth Ganga Research Institute