________________
२१४
संगीतरत्नाकरः कोष्ठे समोर्ध्वपक्तिस्थे परासामधिको भवेत् । द्वितीयाधस्तनः पात्यस्तत्र त्वपतिताद् द्रुतः ॥ ३८९ ॥ पतिताल्लः पात्यपातानन्तर्येऽल्पो महान्भवेत् । रूपपूर्ती निवर्तन्ते पूर्ववत्स्वीयपक्तिगाः ॥ ३९० ॥ अधःसमवदन्यत्स्यानिवृत्तौ तु पुनर्विधिः। यस्मात्स यस्यामूर्ध्वायां पड़तो सा विषमा यदि ॥ ३९१ ॥ विधिविषमकोष्ठोक्तः समा चेत्तह्ययं मतः । विषमोर्ध्वश्रेणिसंस्थे कोष्ठेऽधोविपमोदितः ।। ३९२ ॥
___ इति द्रुतमेरुपरपङ्क्तिनष्टम (क०) अथ द्रुतमेरोः परपङ्क्तिनष्टं लक्षयति-कोष्ट इत्यादिना । परासां पङ्क्तीनां समोर्ध्वपङ्क्तिकोष्ठे द्वितीयाधस्तनाबैरधिकः पात्यो भवेत् । तत्र तेप्वकेषु मध्येऽपतितादकाद् द्रुतो लभ्यो भवेत् । पतिताल्लः ; लघुर्लभ्यो भवेत् । पात्यपातानन्तर्य इति । पात्ययोरङ्कयोः पातस्य आनन्तयें निरन्तरयोः पाते सतीत्यर्थः । अल्पो लघुर्महान् गुरुभवेदित्यर्थः । रूपपूतौं ; लघ्वादिस्वरूपप्राप्तौ सत्यां स्वीयपङ्क्तिगा अङ्काः पूर्ववदधःपङ्क्ताविव । निवर्तन्त इति । लघुप्राप्तावकद्वयं, गुरुप्राप्तावकचतुष्टयं, प्लुतप्राप्तावकषट्कं च निवर्तते । पुनर्विधौ न गण्यत इति यावत् । अन्यत् अवशिष्टम् । अधःसमवत् ; अध:पङ्क्तौ समकोष्ठवष्टव्यम् । निवृत्तौ तु; रूपहेत्वङ्कनिवृत्तौ तु रूपान्तरप्राप्तये पुनर्विधिः कार्यः । यस्यामूर्ध्वायां पङ्क्तौ यस्मात् अङ्कात् , स विधिर्भवेत् , सा अध:पङ्क्तिः विषमा विषमसंख्याका यदि भवति चेत् , विषमकोष्ठोक्तोऽधःपङ्क्तिः विषमकोष्ठोक्तो विधिः कार्यः । समा चेत्समसंख्याका चेत् , तत्तयमिदानीमुक्तो विधिः कार्यः ॥ ३८९-३९२ ॥
इति द्रुतमेरुपरपङ्क्तिनष्टम्
Scanned by Gitarth Ganga Research Institute