________________
२१३
पश्चमस्तालाध्यायः समस्तोद्दिष्टवत्प्रोक्तमुहिष्टमिह मूरिभिः । द्रुताङ्कानन्तरं कार्य विधानं समकोष्ठवत् ॥ ३८८ ।।
इति प्रथमपङ्क्तिविषमकोष्ठोद्दिष्टम्
इत्यधस्तिर्यकपक्तिनष्टोद्दिष्टे ततो गुरुहेतोस्तृतीयेऽङ्के द्वयङ्केऽवशिष्टे द्वये पतिते सति, स एव गुरु: प्लुतो भवति । एवं च द्रुत: प्लुतश्च प्रथमो भेदः । एवं दशमो भेदः कीदृगिति प्रश्ने, दशसु पातितेषु अवशिष्टे द्वये चतुरङ्कस्य अपातात् द्रुतो लब्धः । द्रुते लब्धे सति समकोष्ठवद्विधानम् । ततश्चतुरङ्कात् तृतीये पतिते गुरुर्लभ्यते, पतितात् द्रुतलाभ: स्यादिति । ततस्तालपूर्त्यर्थं लघु:, एवं लघुर्गुरुर्दुतश्च सप्तद्रुतप्रस्तारे ; एकद्रुते दश इत्यादिज्ञेयम् ॥ ३८७ ॥
इत्याद्यपङ्क्तिविषमकोष्ठनष्ठम् अथ तत्कोष्ठोद्दिष्टं लक्षयति-समस्तोद्दिष्टवदिति । 'यैरकैः पतितैर्नष्ट: ' इत्याद्यनुसंधेयम् । विशेषमाह-द्रुताङ्कानन्तरमिति । द्रुताङ्कपरिज्ञानानन्तरम् । समकोष्ठवदिति । 'उद्दिष्टे तु गुरोर्लभ्यस्तृतीयोऽन्त्यात्पुरातनः' इत्याद्यनुसंधेयम् ॥ ३८८ ॥
इति द्रुतमेर्वधःपङ्क्तिविषमकोष्ठोद्दिष्टम्
इति द्रुतमेर्वधःपङ्क्तिनष्टोद्दिष्टम् (स०) प्रथमपङ्क्तिविषमकोष्ठोद्दिष्टमाह-समस्तेति । इह ; विषमकोष्ठे ; उद्दिष्टं सर्वसाधारणम् । समस्तोद्दिष्टवत् ; पूर्वोक्तोद्दिष्टवत् ; 'यैरकैः पतितैनष्टः' इत्यादिरनुसंधेयम् । परं तु द्रुताङ्कानन्तरं समकोष्ठवत् विधानम् । यथा दुतो लघुर्गुरुश्च सप्तद्रुतप्रस्तारे एको द्रुतः प्लुतश्च कतिधा भेद इति प्रश्ने, चतुरङ्के द्वयद्वये च पतिते एवंविधभेदस्य समस्तोद्दिष्टस्य लभ्यमानत्वात् अष्टौ लब्धाः । तेष्वन्त्येषु पातितेषु चतुर्णामवशिष्टत्वात् चतुर्थों भेदः । एवं विषमकोष्ठोद्दिष्टं ज्ञेयम् ॥ ३८८॥
इति प्रथमपङ्क्तिविषमकोष्ठोद्दिष्टम्
Scanned by Gitarth Ganga Research Institute