SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २१२ संगीतरत्नाकरः समस्तनष्टवन्नष्टं विषमे कोष्ठके भवेत् । द्रुते लब्धे ततः पूर्वैरकैः स्यात्समकोष्ठवत् ॥ ३८७ ॥ इत्याद्यपङ्क्तिविषमकोष्ठनष्टम् निवृत्तिस्त्वङ्कयोयोरिति । लघुदर्शनादकद्वयं निवर्तनीयमित्यर्थः । लध्वङ्कयोगैहीतेऽन्त्ये शेषादुद्दिष्टबोधनमिति सर्वोद्दिष्टवद्रष्टव्यम् ॥ -३८४-३८६ ॥ इति द्रुतमेर्वध:पङ्क्तिसमकोष्ठोद्दिष्टम् (सु०) उद्दिष्टं निरूपयति- उद्दिष्टे त्विति । गुरोरन्त्यात् प्रथमं तृतीयोऽको लभ्यते । पूर्व चतुर्णामकानां निवृत्तिः, प्लुतात् तृतीयः पञ्चमश्चाको लभ्यते, तत: षण्णामकानां निवृत्तिः । अध: पुनरेवं प्रकारः, लघोस्त्वको न लभ्यते । द्वयोरङ्कयोनिवृत्ति:, लब्धमङ्कमन्त्यात्पातयित्वा, शेषात् अवशिष्टात् उद्दिष्टपरिज्ञानम् । अत्रैवं दृष्टान्तः–अष्टद्रुतप्रस्तारे द्रुतद्वयं गुरुलघुश्च द्रुतहीनेषु कथितो भेद इति । अन्यात् तृतीयश्चतुरङ्को लब्धः। चतुरङ्कोऽन्त्ये मध्ये च पातिते त्रयोऽवशिष्टाः । ततश्च तृतीयो भेद इत्युत्तरम् ॥ -३८४-३८६ ॥ इति दुतमेर्वध:पङ्क्तिसमकोष्ठोद्दिष्टम् । (क०) अथ द्रुतमेरुविषमकोष्ठे नष्टं लक्षयति-समस्तनष्टवदिति । 'पातयेत्पूर्वपूर्वाकं तत्र त्वपतिता द्रुताः' इत्यादि सर्वमनुसंधेयम् । विशेषमाहद्रुते लब्ध इति । समकोष्ठवदिति । द्रुतलाभानन्तरम् , 'तृतीयपञ्चमोपान्त्यावपाते लभ्यते लघुः' इत्यादि सर्वमनुसंधेयमित्यर्थः ॥ ३८७ ॥ इति द्रुतमेवध:पङ्क्तिसमकोष्ठोद्दिष्टम् (सु०) प्रथमपङ्क्तिविषमकोष्ठे नष्टमाह-समस्तेति । सर्वसाधारणपूर्वोतनष्टवत् विषमे कोष्ठके नष्टं ज्ञातव्यम् । अयं तु विशेषः-द्रुते लब्धे सत्यवशिष्टैः पूर्वैरकैः समकोष्टवत् विधानम् | यथा सप्तद्रुतप्रस्तारे प्रथमो भेदः कीगिति प्रश्ने, अन्त्ये द्वादशाङ्कमध्ये एकस्मिन् पातिते अवशिष्ट वेकादशसु चतुरङ्कपञ्चाङ्कौ पातितौ ; 'निरन्तरे त्वस्मिन' इति न्यायेन गुरुर्लब्धः । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy