________________
पश्चमस्तालाध्यायः
२११
उद्दिष्टे तु गुरोर्लभ्यरतृतीयोऽन्त्यात्पुरातनः ॥ ३८४ ॥ प्राग्वच्चतुर्नित्तिः स्यात्तृतीयः पञ्चमस्तथा । प्लुताल्लभ्यौ निवृत्तिस्तु षण्णामथ पुनर्विधिः ॥ ३८५ ॥ लघोरङ्को न लभ्येत निवृत्तिस्त्वङ्कयोयोः । लब्धाङ्कयोगहीनेऽन्त्ये शेपादुद्दिष्टवोधनम् ।। ३८६ ।।
इति दुतमेर्वधःपङ्क्तिसमकोष्ठोद्दिष्टम् इति द्रुतमेरुप्रथमपतिसमकोष्ठनष्टोद्दिष्टे
अत्र परिज्ञानार्थमुदाहरणं दर्शयामः-- अष्टद्रुतप्रस्तारे द्रुतहीनाः सप्त भेदा भवन्ति । तत्र प्रथमो भेदः कीदृगिति नष्टप्रश्ने, एकः सप्तसु पात्यते । अवशिष्टेषु षट्सु तृतीयपञ्चमौ पतिते, 'गुरुः प्लुती भवेत्' इति न्यायेन स एव गुरु: प्लुतो भवति । तालपूरणार्थमेको लघुर्ग्राह्यः । एवं लघु: प्लुतश्च प्रथमो भेदः । एवं द्वितीयभेदे पृष्टे द्वयङ्के अन्त्यमध्ये पातिते सति, अवशिष्टेषु पञ्चसु तृतीये चतुरङ्के पतिते गुरुर्लब्धः, पञ्चमो द्वयङ्कः शेषतां प्राप्त: । ततोऽवशिष्टे एकस्मात् तृतीये पतिते पुनरपि गुरुलाभ इत्यादि ज्ञेयम् ॥ -३७८-३८३- ॥
इति द्रुतमेर्वध:पङ्क्तिसमकोष्ठनष्टम
(क०) अथ तत्कोष्ठोद्दिष्टमाह -उद्दिष्टे वित्यादि । उद्दिष्टे भेदेऽन्त्यत्वेन यदि गुरुदृश्यते, तस्माद्रोरन्त्यादङ्कात् पुरातनः तृतीयोऽको भवतीत्यर्थः । प्राग्वत् नष्टोक्तप्रकारेण चतुर्निवृत्तिः चतुर्णामङ्कानां निवृत्तिर्भवेत् । उद्दिष्टे यदि प्लुतो दृश्यते, तस्मात्प्लुतात्तृतीयः, तथा पञ्चमश्च प्राप्यते । तृतीयपञ्चमौ प्लुताल्लभ्यौ भवतः । निवृत्तिस्तु षण्णामिति । षडका निवर्तन्त इत्यर्थः । अथ पुनर्विधिरिति । निवृत्तिव्यतिरेकाङ्कसद्भावे पुनविधिः कार्यः । उद्दिष्टभेदे यदि लघुदृश्यते ; तस्माल्लघोरङ्को न लभ्यते ।
Scanned by Gitarth Ganga Research Institute