________________
२१०
संगीतरनाकरः यदि शेषाङ्काः संभवेयुः, तदा शेषेषु तेष्वङ्केष्वेष एव विधिः पुनः कार्यः । गुरुलाभे सत्यपातार्हः पञ्चमः शेषतां व्रजेत् ; पञ्चममारभ्य प्राक्तनाः शेषा भवन्तीत्यर्थः । एवं प्लुतलामे सप्तमः शेषतां व्रजेदिति द्रष्टव्यम् । अङ्काभावे विति। शेषाङ्काभावे तु तालपूर्तये लघवो गृह्यन्ते ग्राह्या इत्यर्थः ॥ -३७८-३८३- ॥
इति द्रुतमेर्वधःपङ्क्तिसमकोष्टनष्टम्
(सु०) द्रुतमेर्वधः पङ्क्तः समकोष्ठेषु नष्टमाह-संख्यैषामिति । एषां द्रुतहीनादिभेदानां संख्या पूर्वोत्तरीतित: पूर्वोक्तप्रकारेण, यस्मात् मेरुकोष्ठाकात् लभ्यते ; तत्र, तस्यां संख्यायां नष्टाकं पातयेत् । अथ ; अनन्तरम् , शेषतः ; शिष्टे अन्त्याङ्के तृतीयपञ्चमोपान्त्यौ; तृतीयपञ्चमावको उपान्त्यौ, अन्त्यान्ते यदा अङ्को न पतति, तदा लघुर्लभ्यते । यदि पर अकृतार्थः स्यात्, तेन सह लघुः कर्तव्यः । अथ ; अनन्तरम् , उभौ अकृतार्थों चेत् , तत: तर्हि ताभ्याम् , अकृतार्थाभ्यामङ्काभ्यामेव, स्वं विना ; तृतीयं वा पञ्चमं वा विनेत्यर्थः । एप लघुः, लभ्यते । परे कृतार्थ इति । परे, परस्मिन् कृतार्थ सति, अकृतार्थः पुरातनो ग्राह्यः स्यात् । पतिताद् गुरुलाभ इति । पतितात् अङ्कात् प्राचा पूर्वेणाङ्केन सह गुरुः लभ्यते । तदा परा अग्रे स्थिता चतुरङ्की ; चतुर्णामकानां समाहारः, निवर्तेत गुरुलाभहेतुत्वेन कृतार्थत्वादित्यर्थः । अथ, तृतीयपातानन्तरम् , पञ्चमेऽपि पतिते सति, स एव गुरु: प्लुती भवेत् । प्राचा पूर्वेणाङ्केन सह एषा पङक्ति: निवर्तते अङ्कनिवृत्तिर्भवति । रूपाप्तौ ; रूपस्य आप्तौ सत्यां, प्रापकाङ्केभ्यः ; गुर्वादिग्रापका येऽङ्काः तेभ्यः, शेषेषु एष एव पुनर्विधिः कर्तव्यः । गुरुलाभे तु सति अपाताईः पञ्चमः शेषो भवति । तत आरभ्य तृतीयपञ्चमौ उपान्त्यावित्यादि विधिः, विधानं कार्यमित्यर्थः । अङ्काभावे; अङ्कानामभावे तु, तालपूर्तये ; तालपूरणार्थ लघवो गृह्यन्ते ग्राह्या इत्यर्थः ।
Scanned by Gitarth Ganga Research Institute