________________
पञ्चमस्तालाध्यायः
२०९ परे कृतार्थे ग्राह्यः स्यादकृतार्थः पुरातनः । पतिताद गुरुलाभः स्यात्सह पाचा तदा परा ॥ ३८१ ॥ चतुरङ्की निवर्तेत पतिते पश्चमेऽप्यथ । गुरुः प्लुती भवेत्ताचा सह चैषा निवर्तते ॥ ३८२ ।। रूपाप्तौ पापकाङ्केभ्यः शेषेष्वेष पुनर्विधिः । गुरुलाभे त्वपाताईः पञ्चमः शेषतां व्रजेत् ॥ ३८३ ।। अङ्काभावे तु गृह्यन्ते लघवस्तालपूर्तये ।
इति द्रुतमेर्वध:पङ्क्तिसमकोष्ठनष्टम् पञ्चमस्य वा शेषाङ्कानन्तर्भावे सतीत्यर्थः । परो यद्यकृतार्थः स्यादिति । तृतीयात्परस्य विषमकोष्ठस्थस्याकृतार्थत्वे । यदीति संभावना। तस्य कचित्कृतार्थत्वमपि संभवतीत्यर्थः । सह तेनेति । अकृतार्थेन सह पाते लघुलभ्यते । अथ चेदिति । अथ परावुभावकृतार्थों चेत् , ततस्ताभ्यां स्वं विनैवैष लभ्यत इत्यर्थः । ततस्तर्हि ताभ्यामकृतार्थाभ्यां पराभ्यामेव, स्वं विना; स्वशब्देनात्र तृतीयपञ्चमावुच्यते । तृतीयं वा पञ्चमं वा विनेत्यर्थः । एवं लघुर्लभ्यते । परे कृतार्थ इति । परस्मिन् कृतार्थे सत्यकृतार्थः पुरातनो ग्राह्यः स्यात् । पतिताद्गुरुलाभ इति । तृतीयात्पञ्चमाद्वा पतिताद्गुरुलाभः स्यात् । सह प्राचेति । तदा गुरुलाभकाले प्राचा सह पतिताङ्कपूर्वेणाङ्कन सहिता परा चतुरङ्की । चतुर्णामङ्कानां समाहारः । निवर्तेत गुरुलाभहेतुत्वेन कृतार्थत्वादित्यर्थः । पतिते पञ्चमेऽप्यथेति । अथ तृतीयपातानन्तरं पञ्चमेऽपि पतिते सति गुरुः प्लुती भवेत् । प्राचा सह चैषा निवर्तत इति । प्राचा षष्ठाङ्केन सहैषा च परा षडङ्कीत्यर्थः । निवर्तते प्लुतहेतुत्वेन कृतार्थो भवतीत्यर्थः । रूपाप्ताविति । प्रापकाकेभ्यो लध्वादिस्वरूपलाभे सति
27
Scanned by Gitarth Ganga Research Institute