________________
२०८
संगीतरत्नाकर:
'संख्यैषा मेरुकोष्ठाङ्काद्यस्मात्पूर्वोक्तरीतितः ॥ ३७८ ॥ लभ्यते तत्र नष्टाङ्कं पातयेदथ शेषतः । तृतीयपञ्चमोपान्त्यावपाते लभ्यते लघुः || ३७९ ॥ परो यकृतार्थः यात्सह तेनाथ चेदुभौ । अकृतार्थौ ततस्ताभ्यां स्वं विनैवैष लभ्यते ॥ ३८० ॥
(सु० ) मेरुषु बोधितानां भेदानां प्रस्तारमाह — द्रुतहीनादय इति । पञ्चभिरपि मेरुभिः द्रुतहीनादयो भेदा ये ज्ञापिताः ; तेषां प्रस्तारः सर्वप्रस्तारवत् सर्वसाधारणत्वेन यः पूर्व निर्दिष्टः प्रस्तारः तद्वदेव कर्तव्यः । परं त्वयं विशेष: – तेषु ; भेदेषु, यो द्रुतादिनियम: द्रुतादिसंख्यानियमः, सोऽत्र न भङ्क्तव्यः । तस्य द्रुतादिनियमस्य यथा भङ्गो न भवति तथा प्रयत्नतः कर्तव्य इत्यर्थः । अत्र परिज्ञानार्थं दृष्टान्तं दर्शयाम: - षड् द्रुतप्रस्तारे चत्वारो द्रुतहीना: । तत्र पूर्वं प्लुतः स्थाप्यः ; प्लुतस्याधस्तादल्पो गुरुर्देयः, पूर्वं लघुः, गुरोरधस्ताल्लघु, अनन्तरमुपरिस्थितो लघुः, तालपूरणार्थं पूर्वो लघुरिति चत्वारो भेदाः । एवं द्विद्रुतादिषु ज्ञातव्यम् । एकलघुप्रस्तारस्त्वेवमेव ॥ ३७७, ३७७- ॥
इति खण्डप्रस्तार:
( क ० ) अथ द्रुतमेरोः प्रथमपङ्क्तिसमकोष्ठे नष्टं लक्षयतिसंख्यैषेत्यादि । पूर्वोक्तरीतित इति । समे त्वन्त्यं विनैतेषां योगं न्यस्येत्यर्थः । यस्मान्मेरुकोष्ठाङ्कत् एषा संख्या लभ्यते, तत्र संख्याङ्के नष्टाङ्कं पातयेत् । अथा अनन्तरं शेषतः शेषे । तृतीयपञ्चमोपान्त्याविति । 'समे त्वन्त्यं विना' इत्युक्तत्वात्तयोरेव प्रथमं तत्कोष्ठे द्रुतहीनसंख्या हेतुत्वेन क्रमेणोपान्त्यत्वमित्यर्थः । अपाते लभ्यते लघुरिति । अपाते तृतीयस्य वा
1
I
' संख्यैषामिति सुधाकरपाठः
Scanned by Gitarth Ganga Research Institute