________________
पञ्चमस्तालाध्यायः
२०७
खण्डप्रस्तारे सर्वप्रस्तारोक्तरीत्या द्रुतादिसंख्यानियमभङ्गे प्राप्तेऽपि द्रुतादिसंख्यानियममपरित्यज्यैव प्रस्तारः कर्तव्य इति । अत्रोदाहरणार्थ प्लुतभेदेषु खण्डः प्रस्तारः प्रदर्श्यते । प्रथमं प्लुतं लिखित्वा तदधस्ततोऽल्पं गुरुं न्यस्य प्रागूने लघु लिखेत् । अनन्तरमाद्याल्लघोरधस्तादल्पे द्रुते लिखितव्ये द्रुतहीनभेदानां प्रस्तुतत्वाद् द्रुतादिनियमो न भक्तव्य इति वचनेन तत्र द्रुतमलिखित्वा गुरोरधो लघु न्यस्य प्रागूने गुरुं लिखेत् । तदनन्तरमाद्याद् गुरोरधो लघु न्यस्य शेषं यथोपरीति शेषं लघु लिखित्वा प्रागूनेऽपि लघु लिखेत् । एवं द्रुतहीनाश्चत्वारो भेदा द्रुतमेरोः षष्ठोर्ध्वपङ्क्तावधःक्रमात्प्रथमकोष्ठस्थेन चतुरङ्केण बोधिता भवन्ति ।
__ अथ द्वितीयकोष्ठस्थेन नवाकेन द्विद्रुतानां भेदानां बोध्यत्वादादौ द्रुतद्वयं गुरुं च लिखित्वा सर्वप्रस्तारवद्गुरोरधो लघु न्यस्य प्रागूने गुरोः संभवेऽपि द्रुतनियमभङ्गो मा भूदिति लघुद्रुतौ च वामसंस्थत्वेन लिखेत् । एवमन्यानपि सप्त भेदान् सर्वप्रस्तारवदुपक्रम्य खण्डप्रस्ताराविरोधेन लिखेत् । अथ तृतीयकोष्ठस्थेन पञ्चाङ्केन बोध्येषु चतुतभेदेष्वादौ चतुरो द्रुतान् एकं लघु च लिखित्वा पूर्वोक्तप्रकारेणाधोऽधो लिखेत् । अथ चतुर्थकोष्ठगतैकाङ्केन सर्वद्रुतभेदो बोध्यः । अस्मिन्नेव प्लुतप्रस्तारे लघुमेरौ षष्ठोर्ध्वपङ्क्त्यध:कोष्ठगतेन पञ्चाङ्केन लघुहीना भेदा ज्ञेयाः। द्वितीयकोष्ठगतेन सप्ताङ्कनैकलघवो भेदा ज्ञेयाः । तृतीयकोष्ठस्थेन षडङ्केन द्विलघवो भेदाः । चतुर्थकोष्ठगतेनैकाङ्केन सर्वलघुभेदो ज्ञेयः । गुरुमेरावपि षष्ठोर्ध्वपङ्क्त्यधःकोष्ठस्थेन चतुर्दशाङ्केन गुरुहीना भेदा ज्ञेयाः । द्वितीयकोष्ठस्थेन पञ्चाङ्केनैकगुरवो भेदः । तथा प्लुतमेरावपि षष्ठोर्ध्वपङ्क्त्यधःकोष्ठस्थेनाष्टादशाङ्केन प्लुतहीना भेदा ज्ञेयाः । द्वितीयकोष्ठस्थेनैकाङ्केन सर्वप्लुतो भेदः । एवं सर्वत्र खण्डप्रस्तार उन्नेयः ॥ ३७७, ३७७- ॥
इति खण्डप्रस्तारः
Scanned by Gitarth Ganga Research Institute