________________
२०६
संगीतरत्नाकरः द्रुतहीनादयो भेदोदारा ये मेरुबोधिताः । सर्वप्रस्तारवत्तेषां प्रस्तारः किं तु तेषु यः ॥ ३७७ ॥ द्रुतादिनियमः सोऽत्र न भङ्क्तव्यः प्रयत्नतः ।
इति खण्डप्रस्तारः
अन्त्यानां पञ्चानां पतीनां मध्ये, आद्यपङ्क्तौ दलगा: द्रुतलघुगुरवः, द्वितीयपङ्क्तौ दलपाःद्रुतलघुप्लुताः ; तृतीयपङ्क्तौ दगपा:द्रुतगुरुप्लुताः ; चतुर्थपङ्क्तौ लगपा: लघुगुरुप्लुताः; अन्त्यपङ्क्तौ दलगपाः द्रुतलघुगुरुप्लुता इति । एष एव संयोगमेरुः स्यात् । एतस्मात्संयोगमेरो यं प्रतिज्ञाय कथयति-तिर्यगिति । तिरश्वीना या पङ्क्तिः, तत्स्थानि कोष्ठानि, तत्रस्थितैः, तेस्तै: कोष्ठाङ्कः । कथंभूतैरित्यपेक्षायामाह-सर्वदुतादय इति ; सर्वद्रुताः, सर्वलघवः, सर्वगुरव इति ऊर्ध्वपङ्क्तिगता ज्ञेया विज्ञेयाः । तदभावस्तु शून्यत इति, तेषां सर्वद्रुतादीनां भेदानामभावः, तिरः तिरश्चीना यावतिथी यावत्संख्याका द्रुतपङ्क्तिः, तावत् द्रुतलाभोऽत्र स्यादिति विज्ञातव्यम् । उपरिष्टात्समारभ्य पङ्क्त्यङ्कसंयुतात् संख्या विज्ञायत इति । प्रस्तारस्तु मूलप्रन्थ एव सम्यग्दर्शितः ॥ -३७१-३७६- ॥
इति संयोगमेरुः
(क०) अथ खण्डप्रस्तारं लक्षयति---द्रुतहीनादय इत्यादिना । मेरुबोधिता इति । मेरुपु द्रुतलघुगुरुप्लुतमेरुषु चतुर्पु बोधिता ज्ञापिताः । द्रुतहीनादयो भेदोद्धारा इति । द्रुतहीनादयो द्वयादिसमसंख्यद्रुता भिदाः । सर्वद्रुतान्ता इति, लघुहीनादुपक्रम्यैकायेकोत्तरवृद्धला इति च, शेषं तु लघुमेरुगुरुमेरुवत् , इति च ये भेदोद्धाराः प्रदर्शितास्तेषां भेदानाम् । प्रस्तारवदिति । 'न्यस्याल्पमाद्यान्' इत्यादिनोक्तरीत्येत्यर्थः । अत्र विशेषमाह-कि विति । तेषु भेदेषु यो द्रुतादिनियमो द्विद्रुतश्चतुर्दुत एकलघुर्द्विलघुर्भेद इत्यादिदुतादिसंख्यानियमो विद्यते सोऽत्र न मन्तव्यः । प्रयत्नत इति । अयमर्थः--
Scanned by Gitarth Ganga Research Institute