________________
२०२
संगीतरत्नाकरः चतुर्योगे तु चत्वारो ये स्युर्भेदास्त्रियोगजाः ॥ ३७१ ॥
तदकेष्वेव पूर्वोक्तं स्याद्विपर्यासयोजनम् । लिखेत् । एवं तृतीयकोष्ठे द्वात्रिंशदङ्कम् । चतुर्थकोष्ठे षष्टयङ्कम् । पश्चमकोष्ठे द्वाविंशत्युत्तरशताकं लिखेत् । अथ दगपपङ्क्तौ प्रथमकोष्ठे पूर्वोक्तप्रकारेण षडङ्कम् । द्वितीयादिकोष्ठेषु यथासंभवमन्त्यतुर्यषष्ठान् यथासंख्यं तत्तवियोगपङ्क्तिगतकोष्ठात्रैर्यथासंभवं संयोज्य तत्तदकं लिखेत् । एवं द्वितीयकोष्ठे द्वादशाङ्कम् । तृतीयकोष्ठे विंशत्यकं लिखेत् । अथ लगपपङ्क्तौ प्रथमकोष्ठे लगपङ्क्तिप्रथमकोष्ठलपपङ्क्तिद्वितीयकोष्ठगपपङ्क्तिचतुर्थकोष्ठस्थितान् द्वयङ्कानादाय षडकं लिखेत् । द्वितीयादिसमकोष्ठेप्वन्त्यस्य सद्भावेऽपि तस्यात्रानुपादेयत्वादुपान्त्यतुर्यषष्ठानामुपादेयत्वेऽप्यसंभवात् तत्तवियोगपङ्क्तिप्वेतकोष्ठसमसंख्यकोष्ठेप्वङ्कसंभवात् तत्तत्तिर्यपङ्क्तिवामभागलिखिततालप्रस्तारेषु केवललगपयुक्ततालभेदासंभवाच्च बिन्दूनेव लिखेत् । एवं द्वितीयकोष्ठे बिन्दं तृतीयादिविषमकोष्ठेषु यथासंभवमुपान्त्यतुर्यषष्ठान् यथासंख्यं तत्तद्वियोगविषमकोष्ठाङ्कर्यथासंभवं संयोज्य तत्तदङ्कलिखेत् ॥ ३६९, ३७० ॥
(सु०) द्वितीयपङ्क्तावुक्तमेकप्रकारमन्यासु पङ्क्तिश्वतिदिशति-त्रियोगजा इति । ये त्रियोगजा भेदाः, यश्च चतुर्योगभवश्व, तत्पङ्क्तीनामपि, अनेन प्रकारेण अपूरणं कर्तव्यम् । अयं तु विशेष:-त्रियोगजेषु भेदेषु ये द्वियोगजा भेदाः सन्ति, तेषां संनिहिताद्यानां संनिहितमादितः कृत्वा पूर्ववदङ्कः कर्तव्यः । यथा द्रुतलघुगुरुविपर्ययप्रयोगपतौ अन्त्योपान्त्यतुरीया ग्राह्याः । अत्र एतद् द्वियोगजं भेदद्वयं द्रुतलघ्वोः, द्रुतगुर्वो:, लघुगुर्वोनियतपङ्क्तीनामन्त्योपान्त्यतुर्या: विपर्ययेण ग्राह्याः ।। ३६९, ३७० ॥
(क०) अथ दलगपपङ्क्तौ विशेष दर्शयति-चतुर्योगे त्वित्यादि ।
Scanned by Gitarth Ganga Research Institute