________________
पचमस्तालाध्यायः
२०३ ये चत्वारस्त्रियोगोत्थाश्चतुर्योगोत्यपश्चमाः ॥ ३७२ ।। भेदास्ते पङ्क्तिषु ज्ञेयाः क्रमादन्त्यासु पङ्क्तिषु । दलगा दलपाश्चैव दगपा लगपाः ऋमात् ॥ ३७३ ॥ त्रियोगजाश्चतुर्योगोद्भवा दलगपा इति । एष संयोगमेरुः स्यादतो ज्ञेयमथोच्यते ।। ३७४ ।। तिर्यपक्तिस्थकोष्टाङ्कस्तैस्तैः सर्वद्रुतादयः ।
ऊर्ध्वपक्तिगता मेयास्तदभावस्तु शून्यतः ॥ ३७५ ॥ चतुर्योगे भेदे त्रियोगजा ये चत्वारोऽपि भेदाः स्युः, तदङ्केष्वेव ; त्रियोगजाङ्केप्वेव पूर्वोक्तविपर्यासयोजनं स्यादिति नियमेन द्वियोगजैकैकाकानामनुपादानमत्र विशेषो दर्शितः । एवं दलगपपङ्क्तौ प्रथमकोष्ठे चतसृणां त्रियोगपङ्क्तीनां प्रथमकोष्ठेषु स्थितान् चतुरः षडङ्कानादाय चतुर्विशत्यकं लिखेत् । द्वितीयादिकोष्ठेषु यथासंभवमन्त्योपान्त्यतुर्यषष्ठान् यथासंख्यं त्रियोगपङ्क्तिकोष्ठगतैर कैर्यथासंभवं संयोज्य तत्तदकं लिखेत् । ये चत्वार इत्यादेग्रन्थस्यार्थः पङ्क्तिपरिज्ञानाय प्रथमत एव दर्शितः । एष संयोगमेरुः स्यात् । इति संयोगमेरोः स्वरूपनिरूपणस्य निगमनम् । एष द्रुतादिसंयोगजविविधभेदबोधकत्वादन्वों द्रष्टव्यः । अनिष्टार्थप्रदत्वादेतेषां मेरुवन्मेरुत्वमवगन्तव्यम् । अतो ज्ञेयं वक्तुमाह-अतो ज्ञेयमित्यादिना । तिर्यक्पङ्क्तिस्थेत्यादि । तैस्तैस्तिर्यकपङ्क्तिस्थैः कोष्ठाङ्कः, ऊर्ध्वपङ्क्तिगताः ऊर्ध्वपङ्क्तिकोष्ठस्थिताः सर्वदूतादयो भेदाः मेया इति । तत्तत्कोष्ठगतसंख्याकपरिमिता विज्ञेया इत्यर्थः । तदभावस्तु शून्यत इति । तत्तकोष्ठस्थशून्यात् तत्तद्भेदाभावो ज्ञेय इत्यर्थः । यथा त्रयोदश्यां तिर्यक्पङ्क्तौ तावत्प्रथमकोष्ठस्थेनैकाङ्केन सर्वद्रुतो भेदो मेयः । अनन्तरं कोष्ठत्रयस्थितेभ्यो बिन्दुभ्यो लगपात्मकस्य तत्पङ्क्तितालस्य प्रस्तारे सर्वलघुसर्वगुरुसर्व
Scanned by Gitarth Ganga Research Institute