________________
पचमस्तालाध्यायः
२०१ संभवन्ति । संनिहितायानां तेषामिति । संनिहित आयो येषां ते तथोक्ताः । अत्र संनिहितशब्देन प्रतियोग्यनुपादानेऽपि प्रकरणादक एव प्रतियोगी गम्यते, अङ्कसंनिहित इति । अयमर्थः-द्वियोगपङ्क्तिषु ये त्रयः प्रथमकोष्ठ एको वा अनेके वा सशून्याः संभवन्ति, तत्र तान्विहायानन्तराङ्कवानेव कोष्ठः प्रथमत्वेन ग्राह्यः । ततः परमशून्या अपि द्वितीयत्वादिना गणनीया इति किंचिद्वियोगजा एव योज्याः, न त्वेकैकजा इत्यपि विशेषः ।
__ अङ्कविपर्ययस्तु प्रागुक्त एव । एतदुक्तं भवति । त्रियोगपङ्क्तिप्वङ्कनीयकोष्ठसमानसंख्यकोष्ठगतान् संभवत्तत्तवियोगपङ्क्तिप्वकानादाय तैः सहान्त्यादीन् यथोचितं संयोज्य तत्तदकं लिखेत् । एवमुक्तरीत्या दलगपङ्क्तौ प्रथमकोष्ठे दलदगलगपङ्क्तिषु परिक्रमेण प्रथमकोष्ठगतान् त्रीन्द्वयङ्कानादाय षडकं लिखेत् । द्वितीयकोष्ठेऽन्त्यं षडत दलदगपङ्क्तिद्वितीयकोष्ठगताभ्यां व्यङ्काभ्यां संयोज्य द्वादशाकं लिखेत् । लपपङ्क्तौ द्वितीयकोष्ठस्य सशून्यत्वादकाभावः । तृतीयादिकोष्ठेष्वन्त्योपान्त्यतुर्यानङ्कनीयकोष्ठसमानसंख्यकोष्ठगतैः संभवद्भिर्दलगदगपङ्क्त्यकैः संयोज्य तत्तदकं लिखेत् । एवं तृतीयकोष्ठे द्वात्रिंशदकं लिखेत् । चतुर्थकोष्ठे षष्टयङ्कम् । पञ्चमकोष्ठे चतुस्त्रिंशदुत्तरशताङ्कम् । षष्ठकोष्ठ एकपश्चाशदुत्तरद्विशताङ्कम् । सप्तमकोष्ठे पञ्चशत्यक्षं च लिखेत् । अथ दलपपङ्क्तौ प्रथमकोष्ठे दलपङ्क्तिप्रथमकोष्ठगतं द्वयकं दलपपङ्क्तिप्रथमकोष्ठयोः सशून्यत्वात्तत्तद्वितीयकोष्ठगतौ द्वयको च आदाय खण्डकं लिखेत् । 'संनिहिताद्यानाम्' इति वचनेनात्राङ्कवानेव कोष्ठः प्रथमत्वेन गृह्यत इत्युक्तत्वाद्वितीयकोष्ठेऽन्त्यं षडत दलपपङ्क्तिद्वितीयकोष्ठगताभ्यां व्यङ्काभ्यां संयोज्य द्वादशाकं लिखेत् । लपपङ्क्तौ द्वितीयस्य सशून्यत्वादङ्कासंभवः ।।
एवं तृतीयादिषु कोष्ठषु यथासंभवमन्त्योपान्त्यषष्ठान् यथासंभवं तत्तवियोगपङ्क्तिष्वङ्कनीयकोष्ठसमानसंख्यकोष्ठगतैरकैः संयोज्य तत्तदवं
Scanned by Gitarth Ganga Research Institute