________________
२००
संगीतरत्नाकर:
त्रियोगजाश्च ये भेदाश्चतुर्योगभवश्च यः । तत्पङ्क्तीनामपि ज्ञेयमेवमेवाङ्कपूरणम् ।। ३६९ ।। किंतु त्रियोगजे भेदे ये त्रयः स्युर्द्वियोगजाः । तेषां संनिहिताद्यानां प्रागुक्तोऽङ्कविपर्ययः ।। ३७० ॥
विपर्यस्तौ गपाङ्कावादाय द्वयङ्कं लिखेत् । पञ्चमादिषु त्रिषु कोष्ठेषु पूर्ववत्तालभेदासंभवाद्विन्दून् लिखेत । अष्टमद्वादशादिपु त्र्यन्तरितेषु कोष्ठेषु यथासंभवं तुर्यषष्ठौ यथासंभवं विपर्यस्ताभ्यामपि गपाङ्काभ्यां संयोज्य तत्तदङ्कं लिखेत् । इत्यष्टमकोष्ठे चतुरङ्कं लिखेत् ॥ -३६६-३६८ ॥
(सु० ) कुत्रत्यो द्वितीयाद्या ग्राह्या इत्यपेक्षायामाह - लेख्येति । लेख्या या पङ्क्तिः, तस्या उपरिश्रेणी या पङ्क्तिः तिरश्वी विद्यते, तामाश्रिताः ये अङ्काः द्रुतलघुगुरुप्लुतानां स्युः । आद्ये पङ्क्तिचतुष्के ऊर्ध्वकोष्ठगतेषु द्रुतादीनामङ्केषु मध्ये प्रस्तुता ये भेदा: द्रुतलघुगुरुयुक्ता आदि: तत्र स्थिता ये द्रुतादयः तेषां पङ्क्तिः, तद्वयञ्जकप्रथमपङ्क्त्यादिः, तत्संश्रितान् अङ्कान् गृह्णीत । ततश्च द्रुतलघुपङ्क्तौ प्रथमद्वितीयपङ्क्तौ अङ्का ग्राह्या इति । अङ्कग्रहणे विशेषमाह - तेऽपीति । तेऽपि अन्त्यद्वितीयाद्या अङ्काः, प्रस्तुतेषु द्रुतादिषु विपर्यस्ताः विपरीता भवेयुः । द्रुतलघुपङ्क्तौ आद्यायां, द्रुतपङ्क्ते: अन्त्ये ग्राह्याः । द्वितीयस्याश्च लघुपङ्क्तेः उपान्त्ये ग्राह्ये सति विपर्ययः । द्वितीयपङ्क्तेरन्त्यः, प्रथमपङ्क्तेरुपान्त्य इति । एवमन्यास्वपि पङ्क्तिषु विपर्ययो बोद्धव्यः । अङ्कासंभवे ; अङ्कानामसंभवे तु खं शून्यं लेखनीयम् ॥ ३६६-३६८ ॥
अत्र
(क०) अथ दलगपङ्क्त्यादित्रियोगपङ्क्तिषु चतसृण्वेकस्यां चतुर्योगपङ्क्तौ चाङ्कलेखनमतिदिशति – त्रियोगजाश्वेत्यादिना । संभवासंभवौ विपर्यासश्चातिदेशार्थः ; पृथगभिधाने विशेषं दर्शयति-— किंत्वित्यादिना । त्रियोगजभेदे प्रत्येकं ये द्वियोगजास्त्रयो भेदाः
Scanned by Gitarth Ganga Research Institute