________________
पश्चमस्तालाध्यायः
१९९ पङ्क्तिगताभ्यां दपाङ्काभ्यां संयोज्य तत्तदकं लिखेत् । एवं तृतीयकोष्ठे व्यङ्कम् । चतुर्थकोष्ठे चतुरङ्कम् । पञ्चमकोष्ठे पञ्चाङ्कम् । पष्ठकोष्ठे षडङ्कम् । सप्तमकोष्ठे सप्ताङ्कम् । अष्टमकोष्ठ एकादशाकं च लिखेत् । अथ लगपङ्क्तौ प्रथमकोष्ठे संनिहितायामुपरिपङ्क्तौ लगाङ्कयोरभावात्तदुपरिव्यवहितपक्तिगतलगाङ्कावादाय द्वयकं लिखेत् । अयमेव विपर्यस्तशब्दार्थो वेदितव्यः ।
द्वितीयकोष्ठे त्वन्त्यस्य द्वयङ्कस्यात्रानुपादेयत्वात् संनिहितोपरिपङ्क्तौ लध्वङ्कसद्भावेऽपि गुर्वाभावाद्वयवहितोपरिपङ्किगतगुर्वकस्य लघुपङ्क्तौ प्रथमकोष्ठोपयुक्तत्वेन पुनर्ग्राह्यत्वाभावात्प्रस्तुतलगायोगासंभवेन पूर्ववद्विन्दुमेव लिखेत् । तृतीयकोष्ठे तूपान्त्यं द्वयकं व्यवहितोपरिपङ्क्तिगतलघ्वकेन संयोज्य व्यकं लिखेत् । चतुर्था दिसमकोष्ठेषु क्वचिदुपरिपङ्क्तौ लगाङ्कयोगसंभवेऽपि पङ्क्तावुपक्रान्तोपान्त्यतुर्याभावात्तत्तत्तिर्यक्पङ्क्तिवामभागपादलिखितद्वतलघुप्लुतात्मकादिविषमततालप्रस्तारेषु केवललगयुक्तभेदासंभवाच्च बिन्दूनेव लिखेत् । पञ्चमादिषु विषमकोष्ठेषु उपान्त्यतुर्यों यथासंभवं तत्तदुपरिपङ्क्तिगतलगाङ्काभ्यां संयोज्य तत्तदकं लिखेत् । अथ लपपङ्क्तौ प्रमथकोष्ठे तदुपरिपङ्क्तौ लपाङ्कसंभवेऽपि तत्तिर्यक्पङ्क्तिवामभागलिखित तत्तद्रुतप्लुतात्मकतालस्य प्रस्तारे लघुप्लुतयुक्तभेदासंभवाद्विन्दं लिखेत । द्वितीयकोष्ठे ताशतालभेदसंभवाद्विपर्यस्तौ लपाङ्कावादाय द्वयत लिखेत् । एवं संभवासंभवशब्दयोरर्थप्रपञ्चो वेदितव्यः ।
तृतीयादिविषमकोष्ठेषूपान्त्यषष्ठयोरभावात्तत्तत्तालप्रस्तारेषु तादृशभेदासंभवाच्च बिन्दूनेव लिखेत । चतुर्थादिसमकोष्ठेषु यथासंभवमुपान्त्यषष्ठौ यथासंभवं लपाङ्काभ्यां संयोज्य तत्तदकं लिखेदिति । तृतीयकोष्ठे बिन्दुम् । चतुर्थकोष्ठे व्यकं, पञ्चमकोष्ठे बिन्दु, षष्ठकोष्ठे चतुरङ्क, सप्तमकोष्ठे बिन्दुं च लिखेत् । अथ गपपङ्क्तौ प्रथमादित्रिषु कोष्ठेषु पूर्ववत्तत्तत्तालेषु तादृशभेदासंभवाद्विन्दूनेव लिखेत । चतुर्थकोष्ठे तादृशतालभेदसंभवादुपरिपङ्क्तिषु
Scanned by Gitarth Ganga Research Institute