________________
१९८
संगीतरत्नाकरः त्विति । संनिहितोपरिपङ्क्तिगतानां विपर्यस्तानां वा प्रस्तुतद्रुताद्यङ्कानामसंभवे सति तु खं लिखेत् । उक्तप्रकारेण द्वियोगपङ्क्तिकोष्ठेष्वङ्कलेखनमुच्यते । तत्र दलपङ्क्तावाद्यकोष्ठे तदूर्ध्वतिर्यक्पङ्क्तिगतदलाको संयोज्य द्वयकं लिखेत् । द्वितीयकोष्ठेऽन्त्यं द्वयङ्कमुपरिपङक्तिगतद्रुताङ्कस्यैव संभवात्तेन संयोज्य व्यकं लिखेत् । तृतीयकोष्ठेऽन्त्योपान्त्यौ त्रिद्वयकावुपरिपङ्क्तौ दलाङ्कयोः संभवात्ताभ्यां संयोज्य सप्ताझं लिखेत् । एवं सर्वत्र संभवशब्दार्थों द्रष्टव्यः ।
चतुर्थादिकोष्ठेप्वन्त्योपान्त्यौ यथासंभवं दलाङ्काभ्यां संयोज्य तत्तदकं लिखेत् । एवं चतुर्थकोष्ठ एकादशाङ्कम् । पञ्चमकोष्ठे विंशत्यङ्कम् । षष्ठकोष्ठे द्वात्रिंशदङ्कम् । सप्तमकोष्ठे चतुष्पञ्चाशदङ्कम । अष्ठमकोष्ठे सप्ताशीत्यङ्कम् । नवमकोष्ठे त्रिचत्वारिंशदुत्तरशताङ्कम् । दशमकोष्ठ एकत्रिंशदुत्तरद्विशताङ्कम् । एकादशे कोष्ठे षट्सप्तत्युत्तरत्रिशत्यकं च लिखेत् । अथ दगपङ्क्तौ प्रथमकोष्ठे तदूर्ध्वतिर्यक्पङ्क्तिगतदशाकावादाय द्वयत लिखेत् । द्वितीयकोष्ठेऽन्त्यं द्वयङ्कमुपरिपङ्क्तिगतद्रुताकेन संयोज्य व्यकं लिखेत् । तृतीयादिकोष्ठेषु यथासंभवमन्त्यतुर्याको यथासंभवमुपरिपङ्क्तिगतदगाङ्काभ्यां संयोज्य तत्तदकं लिखेत् । एवं तृतीयकोष्ठे चतुरङ्कम् । चतुर्थकोठे पञ्चाङ्कम् । पञ्चमकोष्ठे नवाङ्कम् । षष्ठकोष्ठे त्रयोदशाङ्कम् । सप्तमकोष्ठेऽष्टादशाङ्कम् । अष्टमकोष्ठे चतुर्विशत्यङ्कम् । नवमकोष्ठे पञ्चत्रिंशदकं च लिखेत् ।
अथ द्रुतप्लुतपङ्क्तौ प्रथमकोष्ठे लेख्यपङ्क्युपरिश्रेणीषु संनिहितायां वा व्यवहितासु वा व्यस्तेषु दलगपाङ्केषु द्रुताङ्कस्य सद्भावेऽपि क्वचिदपि प्लुताङ्काभावेन दपायोगासंभवेन, 'अङ्कासंभवे तु खम्' इति वचनाद्विन्दुमेव लिखेत् । द्वितीयकोष्ठे तूपरिपङ्क्तिगतदपाको संयोज्य द्वयकं लिखेत् । तृतीयादिकोष्ठेषु यथासंभवमन्त्यषष्ठौ, यथासंभवमुपरि
Scanned by Gitarth Ganga Research Institute