________________
पश्चमस्तालाध्यायः
१९७
लेख्यपङ्क्त्युपरिश्रेणी या तिरची तदाश्रिताः || ३६६ ॥ अङ्का दलगपानां स्युराद्यपङ्क्तिचतुष्टये । तेषु प्रस्तुतभेदस्यद्रुतादिव्यक्तिसंश्रितान् || ३६७ ।। अङ्कान्गृह्णीत तेऽप्यन्त्यद्वितीयाद्या द्रुतादिषु । प्रस्तुतेषु विपर्यस्ताः स्युरङ्कासंभवे तु खम् || ३६८ ।।
तलघुगुरुप्लुतेषु यथाक्रमं योज्याः । द्रुते अन्त्याङ्गः, लघौ द्वितीयाङ्कः, गुरौ तुतीयः, प्लुते षष्ठ इति । तेषु यद्योगजा भिदाः ; यद्योगात् जाता भेदा:, तेषामङ्कानाम्, पङ्कौ पञ्चम्यादिपङ्क्तौ तदङ्कयोगाङ्कम् ; पूर्वोक्ततत्तदङ्कयोगनिष्पन्नमङ्कम्, तत्कोष्ठे ; तत्तत्पङ्क्तिकोष्ठे, यथासंभवं लिखेत् । द्रुतलघुप्लुतपङ्क्तौ अन्त्यद्वितीययोगः, द्रुतगुरुपङ्क्तौ अन्त्यस्तुर्ययोगः, द्रुतलघुपङ्क्तौ अन्त्यष्टयोगः, लघुगुरुपङ्क्तौ द्वितीयतुरीययोगः, लघुप्लुतपड़तौ द्वितीयषष्ठयोगः, गुरुप्लुतपङ्क्तौ चतुर्थषष्टयोग इति ॥ - ३६४, ३६५-॥
(क०) लेख्यपङ्क्तीत्यादि । आद्यपङ्क्तिचतुष्टय ऊर्ध्वभूते दलगपपङ्क्तिचतुष्टये तिरची या लेख्यपङ्क्युपरिश्रेणीत्यनेन लेख्यपङ्क्तेरपि तिरश्चीत्वं मन्तव्यम् । तदाश्रिताः ; उपरिश्रेणीमाश्रिता ये दलगपानामङ्काः स्युः तेष्वङ्केषु | प्रस्तुतभेदस्थद्रुतादिव्यक्तिसंश्रितानिति । प्रस्तुतभेदा दलादिद्वियोगजाः तत्रस्था द्रुतादय:, तेषां व्यक्तीः संश्रिता इति तथोक्ताः तानङ्कान्गृह्णीत । तेऽपीति ; आद्यपङ्क्तिचतुष्टयगतद्रुतादिव्यक्तिसंश्रिता अङ्काः प्रत्यवमृश्यन्ते तच्छब्देन ; अपिशब्दः समुच्चयार्थो भिन्नक्रमश्च । अन्त्यद्वितीयाद्या इति । दुतादिषु द्वियोगभवेषूपक्रान्तेषु सत्सु । विपर्यस्ता इति । परस्परं व्यवहितपङ्क्तिकोष्ठस्था इत्यर्थः । लेख्यपङ्क्त्युपरिश्रेणीत्यत्र संनिहिताया एव पङ्क्तेर्विवक्षितत्वात्तद्विपर्यासोऽत्र व्यवहितत्वम् । तेन यथाभूता अप्यङ्काः क्वचिदव्यवधानासंभवेऽपि योज्या स्युः । अङ्कासंभवे
Scanned by Gitarth Ganga Research Institute