________________
१९६
संगीतरत्नाकरः अत्रोपरिष्टादारभ्य स्यादधोऽधोऽङ्कलेखनम् ॥ ३६४ ॥ अन्त्यपूर्व द्वितीयाङ्कतुर्यपष्ठास्तथा क्रमात् । योज्या दलगपेषु स्युस्तेषु तद्योगजा भिदाः ।। ३६५ ॥
पङ्क्तौ तदङ्कयोगाङ्कं तत्कोष्ठे संभवाल्लिँखेत् । षट्कोष्टयः तद्वत् । पञ्चसु कोष्ठेषु शून्ययुक्ताः, कोष्ठके कोष्ठके एकाङ्कयुक्ता इत्यर्थः । अनन्तरं षट्सु पङ्क्तिषु द्वियोगजाः भेदा: क्रमात् ज्ञेयाः । दलघू ; द्रुतलघू पञ्चम्यां पङ्क्तौ ; दगुरू ; द्रुतगुरू षष्ठयां पङ्क्तौ ; दपौ; द्रुतप्लुतौ सप्तम्यां पङ्क्तौ ; लगौ; लघुगुरू अष्टम्यां पङ्क्तौ ; लपौ; लघुप्लुतौ नवम्यां पङ्क्तौ ; पगौ; प्लुतगुरू दशम्यां पङ्क्ताविति । एतासु पञ्चम्यादिषु षट्सु पङ्क्तिषु अङ्कविन्यासप्रकारं प्रतिज्ञाय शेषपूर्वकमाहतदङ्केति ॥ -३६२, ३६३- ॥
(क०) अत्राङ्कलेखने पूर्वमेरुभ्यः प्रकारभेदं दर्शयति-अत्रोपरिटादारभ्येति । अन्त्यपूर्वेत्यादि । अन्त्यपूर्वद्वितीयाद्याः, द्वितीयतुर्यषष्ठाङ्काः क्रमाद्योज्या इति । अयमर्थः-अत्र पञ्चम्यां पूर्वपङ्क्तावन्त्यपूर्वद्वितीयो योज्यः । षष्ठ्यामूर्ध्वपङ्क्तावन्त्यपूर्वस्तुयों योज्यः । सप्तम्यामन्त्यपूर्वः षष्ठः । अष्टभ्यां द्वितीयपूर्वस्तुर्यः । नवम्यां तृतीयपूर्वः षष्ठः । दशम्यां तुर्यपूर्वः षष्ठः । तथा तद्योगजा भिदाः । अन्त्यादियोगजा भेदाः । तेषु दलगपेषु दलगपङ्क्तिकोष्ठाङ्केषु । क्रमाद्योज्याः स्युरिति । यथायोगं योजनीया इत्यर्थः । पङ्क्ताविति । पञ्चम्यादिपङ्क्तौ तदङ्कयोगाकं पूर्वोक्तं तत्तदकयोगनिष्पन्नमङ्कम् । तत्कोष्ठ इति । तत्तत्पङ्क्तिकोष्ठे । संभवाल्लिँखेदिति । संभवशब्दार्थस्तूत्तरत्र प्रपञ्चयिष्यते । सोऽपि तत्रैवावगन्तव्यः ॥-३६४,३६५-॥
(सु०) उपरिष्टात् , आरभ्य अधोऽध: अङ्का लेखनीयाः । अन्त्यपूर्वेति । अन्त्यः पूर्वो येषां ते अन्त्यपूर्वे, तथाविधा: द्वितीयाङ्कतुर्यषष्ठा: दलगपेषु
यद्योगजा इति सुधाकरपाठः.
Scanned by Gitarth Ganga Research Institute