________________
पश्चमस्तालाध्यायः
प्लुतपङ्क्तौ सशून्याः स्युः पञ्च पष्ठस्तु रूपवान् ॥ ३६२ ॥ 'षट्कोष्ठास्तद्वदन्ये स्युः षट्सु पक्तिष्वनन्तरम् । द्वियोगजाः क्रमाझेदा दलघू दगुरू दपौ ॥ ३६३ ॥ लगौ लपौ गपौ चेति तदङ्कप्रक्रिया त्वियम् ।
(सु०) एतासु चतसृषु पङ्क्तिषु अङ्कविन्यासप्रकारमाह-एकाङ्केति । एकाङ्कयुक्तनि:शेषकोष्ठा इति; एकाङ्केन युक्तानि निःशेषाणि सर्वाणि कोष्ठानि यस्याः । एवंविधा आद्या पङ्क्तिर्भवेत् । परा द्वितीया पङ्क्तिः पुन:, विषमैः ; प्रथमतृतीयपञ्चमादिकोष्ठकैः, खयुक्तैः ; शून्ययुक्तैः, समैः कोष्ठैः ; द्वितीयतुर्यषष्ठादिभिः, एकाङ्कसंयुतैः उपलक्षिता भवेत् । तृतीया या गुरुपङ्क्तिः, तस्यास्तु त्रय: कोष्ठा नभोन्विता: ; नभसा शून्येन अन्विताः कर्तव्याः । तुर्यः ; चतुर्थकोष्ठः, एकाङ्कवान् ; एकाङ्कयुक्तः कार्यः । एवं परा अपि चतुष्कोष्ठयः; चतुर्णो कोष्ठानां समाहारः चतुष्कोष्ठयः, ते त्रिषु कोष्ठेषु शून्ययुक्ताः, चतुर्थे तु एकाङ्कयुक्ता इत्यर्थः ॥ -३६०, ३६१- ॥
(क०) प्लुतपङ्क्ताविति । चतुर्थपङ्क्तावाद्याः पञ्च कोष्ठाः सशून्याः सबिन्दवः स्युः । षष्ठः कोष्ठस्तु रूपवान् ; रूपमिति गणकपरिभाषयैकमुच्यते । यथा 'रूपाग्रसप्तविंशतिः' इति तेषां वाक्येऽभिधानात् । तेनैकाङ्कवानित्यर्थः । अन्ये पदकोष्ठास्तद्वत्स्युरिति । षष्ठद्वादशाष्टादशादीनेकाङ्कवतो लिखेत् । इतरान् बिन्दुयुक्तान् लिखेदित्यर्थः । षट्सु पङ्क्तिप्वनन्तरमिति ग्रन्थो व्याख्यातचरः । तासु षट्पङ्क्तिप्वङ्कलेखनप्रकारं वक्तुमाह-तदकमक्रियेति ॥ -३६२, ३६३- ॥
(सु०) चतु• प्लुतपङ्क्तौ पञ्च आद्या: कोष्ठाः ; सशून्याः; शून्यसहिताः कार्या: । षष्ठस्तु रूपवान् ; एकाङ्कयुक्तः कार्यः । अन्या अपि
षट्कोष्ठय इति सुधाकरपाठः
Scanned by Gitarth Ganga Research Institute