________________
१९४
संगीतरत्नाकर:
एकाङ्कयुक्त निःशेष कोष्ठाद्या स्यात्परा पुनः || ३६० ॥ वयुक्तैर्विषमैः कोष्ठैः समैस्त्वेकाङ्कसंयुतैः । कर्तव्या गुरुपङ्क्तेस्तु त्रयः कोष्ठा नभोन्त्रिताः || ३६१ ॥ तुर्य एकाने 'चतुष्कोष्ठाः परा अपि ।
गुरुद्भुतान्, द्वादश्यां प्लुतौ, त्रयोदश्यां प्लुतौ द्रुतं च वामसंस्थान् लिखेत् । तत्रोर्ध्वपङ्क्तिष्वाद्या पङ्क्तिः ॥ - ३५९, ३५९ ॥
(सु०) प्रथमपङ्क्तिचतुष्टये ज्ञेयमाह - - आद्या स्विति । आसां ; पङ्क्तीनां मध्ये, आद्यासु चतसृषु; चतुर्थपङ्क्तिषु क्रमेण सकलद्रुताः; सकलद्रुतादयो भेदा ज्ञातव्याः । प्रथमपङ्क्तौ सकला द्रुता भेदाः, द्वितीयपङ्क्तौ सकला लघवः, तृतीयपङ्क्तौ सकला गुरवः, चतुर्थपङ्क्तौ सकलाः प्लुता इति ॥-३५९, ३५९-॥
"
"
(क० ) एकाङ्कयुक्त निःशेष कोष्टाद्या स्यादिति । तस्यास्त्रयोदशसु कोष्ठेष्वेकाङ्कानेव लिखेत् । परा पुनरिति । द्वितीया तु विषमैः प्रथमतृतीयपञ्चम्यादिभिः कोष्ठैः खयुक्तैः बिन्दुयुक्तैः समैस्तु द्वितीयचतुर्थपष्ठादिभिः कोष्ठैस्तु एकाङ्कसंयुतैरुपलक्षिता कर्तव्येति । द्वितीयपङ्क्तौ प्रथमकोष्ठे बिन्दुम् । द्वितीयकोष्ठ एकाङ्कम् । तृतीयकोष्ठे बिन्दु, चतुर्थकोष्ठेऽप्येकाङ्कमित्येवमेकान्तरितत्वेन लिखेत् । गुरुपङ्क्तेस्त्विति । तृतीयपङ्क्ते - स्त्वाद्यास्त्रयः कोष्ठा नभोन्विताः बिन्दुयुक्ताः कर्तव्याः । तुर्यश्चतुर्थः कोष्ठ एकावान् । एवं परा अपि चतुष्कोष्ठा इत्यत्र वीप्सा द्रष्टव्या । तेन तुर्याष्टमद्वादशषोडशादीन् बिन्दुकोष्ठान्तरितत्वेनैकाङ्कयुक्तान् लिखेदित्यर्थः ॥ -३६०, ३६१- ॥
1 चतुष्कोष्ठय इति सुधाकरपाठः
Scanned by Gitarth Ganga Research Institute