________________
पश्चमस्तालाध्यायः
१९३
आद्यासु चतसृष्वासां क्रमेण सकलद्रुताः ॥ ३५९ ॥ समस्तलघवः सर्वगुरवः सकलप्लुताः ।
दश्यौ पङ्क्ती द्विद्विकोष्ठोनिते, प्रत्येकं द्विद्विकोष्ठोनिते कार्ये । तथा परे; चतुर्दशीपञ्चदश्यौ पङ्क्ती, स्वस्वपूर्वाभ्यां पङ्क्तिभ्यां एकैकौनिते कर्तव्ये ॥ -३५७-३५९- ॥
(क०) अथोर्ध्वपङ्क्तीनां दूतादिनियमं तत्तत्कोष्ठेषु लेखनीयाङ्कनियम च तत्र वक्तुमारभते-आद्यास्वित्यादिना। आसां पञ्चदशीनां मध्ये, आद्यासु चतसृषु ऊर्ध्वपङ्क्तिषु क्रमेण प्रथमादिक्रमेण सकलद्रुताः ; प्रथमपङ्क्तौ सकलद्रुता भेदा ज्ञेयाः । द्वितीयपङ्क्तौ समस्तलघवो भेदाः । तृतीयपङ्क्तौ सर्वगुरवो भेदाः । चतुर्थपङ्क्तौ सकलप्लुता भेदाः । अत्र प्रथमं तावत्सुखेन द्रुतादिपङ्क्तिभेदपरिज्ञानाय पञ्चदशोर्ध्वपङ्क्तिकोष्ठकेषु ऊर्ध्व प्रथमादिक्रमेण द्रुतादीन् , तद्वियोगं, त्रियोगं, चतुर्योगं च लिखेत् । प्रथमायां द्रुतम् , द्वितीयायां लघुम् , तृतीयायां गुरुम् , चतुर्छा द्रुतम् , पञ्चम्यां दलौ, षष्ठयां दगौ, सप्तम्यां दपौ, अष्टम्यां लगौ, नवम्यां लपौ, दशम्यां गपौ, एकादश्यां दलगान् , द्वादश्यां त्रयोदश्यां च दगपान् , चतुर्दश्यां लगपान् , पञ्चदश्यां दलगपांश्च दक्षिणसंस्थान् लिखेत् । आस्वेवोर्ध्वपक्तिषु त्रयोदशतिर्यक्पङ्क्तयः संभवन्ति । 'तावद् द्रुतोऽत्र तालः स्यात्पङ्क्तिर्यावतिथी परः' इति वक्ष्यमाणत्वात्तिर्यक्पङ्क्तिषु तालभेदपरिज्ञानाय तत्पङ्क्तिवामभागे तूपरिष्टादारभ्येकैकद्रुतवर्धितान् द्रुतादीन् तालभेदान् लिखेत् । प्रथमे तिर्यवपङ्क्तौ द्रतम् , द्वितीयस्यां लघुम् , तृतीयस्यां लघुद्रुतौ, चतुर्थ्यो गुरुम् , पञ्चम्यां गुरुद्रुतौ, षष्ठयां प्लुतम् , सप्तम्यां प्लुतद्रुतौ, अष्टम्यां प्लुतलघू , नवम्यां प्लुतलघुद्रुतान् , दशम्यां प्लुतगुरू, एकादश्यां प्लुत
Scanned by Gitarth Ganga Research Institute