________________
१९२
संगीतरत्नाकरः द्वे षष्ठया एककोष्ठोने ततस्तिस्रोऽष्टमावलेः । एककोष्ठोनिताः पश्चाद द्विद्विकोष्ठोनिते परे ॥ ३५८ ॥
पङ्क्तिभ्यां स्वस्वपूर्वाभ्यां तथैकेकोनिते परे । त्वमूवोलकोष्ठपरित्यागेन द्रष्टव्यम् । ततोऽनन्तरं द्वे पङ्क्ती सप्तम्यष्टम्यौ, षष्ठयाः षष्ठपङ्क्त्यपेक्षयैककोष्ठोने कार्ये । तदा ते प्रत्येकमष्टकोष्ठ के भवतः। ततः; अनन्तरं तिस्रो नवमीदशम्येकादश्यः पङ्क्तयः, अष्टमावलेः; अष्टमपङ्क्त्यपेक्षया एककोष्ठोनिताः कार्याः । तदा ताः प्रत्येक सप्त कोष्ठिका भवन्ति । पश्चात् ; अनन्तरं परे द्वादशीत्रयोदश्यौ पङ्क्ती, स्वस्वपूर्वाभ्यां पड़क्तिभ्याम् ; एकादशीद्वादश्यपेक्षयेत्यर्थः । द्विद्विकोष्ठोनिते इति । एकादश्यपेक्षया द्वादशी द्विकोष्ठोनिता कार्या; तदा असौ पञ्चकोष्ठिका भवति । तदा त्रयोदश्यपि द्वादश्यपेक्षया द्विकोष्ठोनिता कार्या ; तदा असौ त्रिकोष्ठिका भवति । परे; चतुर्दशीपञ्चदश्यौ पङ्क्ती । तथेति; स्वस्वपूर्वाभ्यामित्यर्थः । एकैकोनिते इति । त्रयोदश्यपेक्षया चतुर्दश्येककोष्ठोनिता कार्या ; तदा असौ द्विकोष्ठिका भवति । तदपेक्षया पञ्चदश्यप्येककोष्ठोनिता कार्या ; तदा असौ एककोष्ठा भवति । एवं पञ्चदश पङ्क्तयो भवन्ति । अतः परमेता एव यथेष्टमधो वर्धनीयाः ॥-३५७, ३५८-॥
(सु०) संयोगमेरुं निरूपयति-संयोगमेराविति । ऊर्ध्वाध:क्रमेण इष्टताल द्रुतमितसंख्याकैः चतस्रः कोष्ठपङ्क्तयः कर्तव्याः । अङ्कान्तरलेखनप्रकारमाह-तत: परे इति । द्वे पङ्क्ती द्वितीयचतुर्थपङ्क्तिः , पञ्चमषष्ठपङ्क्तिश्च, स्वस्वपूर्वात: ; स्वकीयपूर्वपूर्वपक्तित:, द्विद्विकोष्ठोनिते ; द्वाभ्यां द्वाभ्यां कोष्टाभ्यां न्यूने कार्ये । तत:; अनन्तरम् , षष्ठया:; षष्ठपङ्क्ते: सकाशात् ; एककोठोने ; प्रत्येकमेककोष्ठेन न्यूना कर्तव्या । तत: अनन्तरम् , अष्टमावले: अष्टमपङ्क्तेः सकाशात्, तिस्रः पङ्क्तयः, नवमदशमैकादशपङ्क्तयः एककोष्ठोनिता: कार्याः । पश्चात् , अनन्तरम् , परे द्वादशीत्रयो
Scanned by Gitarth Ganga Research Institute