________________
पश्यमस्तालाध्यायः
संयोगमेरादूर्ध्वाः स्युश्चतस्रः कोष्ठपङ्क्तयः || ३५६ ।। इष्टतादुतमितैः कोष्ठैर्युक्तास्ततः परे । द्वे पङ्क्ती स्वस्वपूर्वातो द्विद्विकोष्ठोतेि ततः ॥ ३५७ ॥
१९१
(सु० ) प्लुतमेरुं निरूपयति - प्लुतमेराविति । प्रथमपङ्क्तिः इष्टतालद्रुतमिता पूर्ववत् । ततः सकाशात् द्वितीयपङ्क्ति: पञ्चकोष्ठोनाः कर्तव्या: । अन्त्यासु पङ्क्तिषु स्वकीयपूर्वपूर्वपङ्क्तितः षट्कोष्ठोनिताः कार्याः । अङ्कविन्यासमाह — अधः पङ्क्ताविति । गुरुमेरुवत्सर्व लक्षयति---तत्र षष्ठाङ्कस्थाने तु
चतुर्थी योज्यते । ततश्च अधः पङ्क्तौ अन्त्योपान्त्यतुर्याणां योगो लेख्यः । परासु पङ्क्तिषु अधः षष्ठयुक्तः, अयमेव त्रियोगो लेख्यः । अन्त्योपान्त्यतुर्यषष्ठाधस्तनपङ्क्तीनां योगो लेख्य इत्यर्थः । गुरुस्थाने प्लुतः । अन्यद् गुरुमेरुवत् । अधः पङ्क्तौ तुर्यषष्ठयोः प्रतिनिधि: ; अन्यासु परपङ्क्तिषु प्रतिनिधिर्नास्ति । अधः कोष्ठके प्लुतहीना: ; द्वितीयकोष्ठके प्लुता: ; तृतीयादिकोष्ठके त्र्यादिप्लुता: ; अन्त्यकोष्ठके सर्वप्लुता इति ज्ञेयाः ॥ ३५५, ३५६- ॥ इति प्लुतमेरु:
(क० ) अथ संयोगमेरुं लक्षयति--संयोग मेरा विति । ऊर्ध्वाः चतस्रः कोष्टषङ्क्तयः इष्टतालद्भुतमितैः कोष्ठैर्युक्ताः स्युरिति । प्रथमं तावत् मेरुस्वरूपनिप्पत्तिप्रदर्शनार्थे प्रत्येकं त्रयोदशकोष्ठयुक्ताः चतस्रः कोष्ठपङ्क्तीः ऊर्ध्वत आरभ्य लिखेत् । ततः परे; दक्षिणभागे । स्वस्वपूतो द्विद्विकोष्ठोनिते द्वे पङ्क्ती इति । अत्र प्रथमेन स्वशब्देन लेखनीया पङ्क्तिरुच्यते । तस्याः पूर्वा चतुर्थी पङ्क्तिस्तदपेक्षया पञ्चमी द्विकोष्ठोfaar कार्या । तदा असौ पङ्क्तिः एकादशकोष्ठिका भवति । द्वितीयस्वशब्देन षष्ठी पक्तिरुच्यमे । तस्याः पूर्वा पञ्चमी पङ्क्तिः, तदपेक्षया षष्ठी द्विकोष्ठोनिता कार्या । तदा असौ नवकोष्ठिका भवति । अत्र न्यून
Scanned by Gitarth Ganga Research Institute