________________
१८८
संगीतरत्नाकरः योगोऽन्त्योपान्त्यषष्टानामधस्तुर्याकसंयुतः । लघुस्थाने गुरुज्ञेयः शेषं तु लघुमेरुवत् ॥ ३५४ ।।
इति गुरुमेरुः
इति गुरुमेरुकोष्ठकम्
योगं पञ्चाकं लिखेत् । चतुर्थकोष्ठेऽन्त्योपान्त्यतुर्याधस्तनानां पञ्चद्विव्यङ्कानां योगं दशाकं लिखेत् । ततोऽप्येवं वर्धयेत् । अत्र ज्ञेयमाह-लघुस्थाने गुरुर्जेय इति । गुरुहीनादुपक्रम्यैकायेकोत्तरवृद्धगाः सर्वगान्ता इत्यूहनीयम् । यथा द्रुतप्लुतप्रस्तारे तावद्रुमेरौ सप्तम्या ऊर्ध्वपङ्क्तेरध:क्रमात्प्रथमकोष्ठस्थेन त्रयोविंशत्यकेन गुरुहीना भेदा ज्ञेयाः । द्वितीयकोष्ठस्थेन दशाङ्केकगुरवो भेदा ज्ञेयाः । एवं सर्वत्र द्रष्टव्यम् । शेपं तु लघुमेरुवदिति । अध:पङ्क्तौ प्रतिनिधेः सत्त्वं, परपङ्क्तिपु प्रतिनिधेरसत्वं सर्वाङ्कसंगतेः संख्या च ज्ञेयमित्यतिदेशार्थः ॥ -३५१-३५४ ॥
इति गुरुमेरुः
(सु०) गुरुमेरुं निरूपयति--गुरुमेराविति । अधःपङ्क्तेः ; इष्टतालद्रुतप्रमाणकोष्ठकान् विधाय, परा; द्वितीया पङ्क्तिः, तस्याः सकाशादुपरि प्रथमकोष्ठत्रयमेव कर्तव्याः । अन्यासु पूर्वपङ्क्तिषु चतुर्भि: कोष्ठकै: न्यूना: कार्याः ।
Scanned by Gitarth Ganga Research Institute