________________
१८७
पञ्चमस्तालाध्यायः गुरुमेरावधःपङ्क्तेः परा कोष्ठत्रयोनिता ॥ ३५१ ॥ चतुश्चतुष्कोष्ठहीनाः स्वस्वपूर्वावलेः पराः । एकाङ्कचन्त आद्याद्यकोष्ठाः प्रथमपङ्क्तिगः ॥ ३५२ ।। द्वितीयो द्वयङ्कवानन्त्योपान्त्यपष्टाङ्कयोगिनः । शेषकोष्ठाः परासां तु द्वितीयादिषु लिख्यते ॥ ३५३ ।।
(क०) अथ गुरुमेरुं लक्षयति-गुरुमेरावित्यादि । अधःपङ्क्तेः परा; द्वितीयपक्तिरधःपङ्क्त्यपेक्षया कोष्ठत्रयोनिता कर्तव्या । पराः; तृतीयादयः । स्वस्वपूर्वावलेश्चतुष्कोप्टहीना इति ; कर्तव्या इति शेषः । अत्रोदाहरणार्थमधःपङ्क्तिः समकोष्ठिका कार्या, तत्परा द्वितीयाध:पङक्तेः कोष्ठत्रयं हित्वा ततः चतुर्थ्यादिकोष्ठैः समानकोष्ठा लेखनीया । तदा स्वयं चतुष्कोष्ठा भवति । आद्याद्यकोष्ठा इति । सर्वासां पङ्क्तीनामाद्यकोष्ठा एकाङ्कवन्तः कार्याः । प्रथमपक्तिगो द्वितीयः कोष्ठो द्वयकवान् कार्यः । शेषकोष्ठा इति । अध:पङ्क्तेस्तृतीयादयः कोष्ठाः । अन्त्योपान्त्यषष्ठाङ्कयोगिन इति । तुर्य मुक्त्वेत्यर्थः । एवमधःपङ्क्तेस्तृतीयकोठेऽन्त्योपान्त्ययोद्वर्यकैकाङ्कयोर्योगं व्यकं लिखेत् । चतुर्थकोष्ठेऽन्त्योपान्त्ययोद्वर्यकव्यङ्कयोर्योगं पञ्चाकं लिखेत् । अत्र तुर्यस्यानुपादेयत्वात प्रतिनिधित्वेनैकाङ्को न गृह्यते । ततः पञ्चमे कोष्ठे अन्त्योपान्त्ययोः पञ्चव्यङ्कयोयोगमष्टाकं लिखेत् । षष्ठे कोष्ठेऽन्त्योपान्त्ययोरष्टाङ्कपश्चाङ्कयोः षष्ठाभावे पञ्चमस्यैकाङ्कस्य च योगं चतुर्दशाकं लिखेत् । सप्तमे कोष्ठेऽन्त्योपान्त्यषष्ठानां चतुर्दशाष्ट्रकाङ्कानां योगं त्रयोविंशत्यकं लिखेत् । परासां विति । परासां; द्वितीयादीनां पङ्क्तीनां द्वितीयादिषु कोष्ठेष्वधस्तुर्याङ्कसंयुत इत्यर्थः । अन्त्योपान्त्यपष्ठानां योगो लिख्यत इति । द्वितीयस्याः परपङ्क्तेः द्वितीयकोष्ठेऽन्त्यमेकाझं तुर्याधस्तनमेकाकं च योजयित्वा द्वयकं लिखेत् । तृतीयकोष्ठेऽन्त्योपान्त्यतुर्याधस्तनानां द्विद्वयेकाकानां
Scanned by Gitarth Ganga Research Institute