________________
१८९
पञ्चमस्तालाध्याय: प्लुतमेरावधःपङ्क्तेः पञ्चकोष्ठोनिता परा । तत्पराः स्वस्त्रपूर्वातः षट्पदकोष्ठोनिता मताः ।। ३५४ ॥ अधःपङ्क्तौ तु षष्ठाङ्कस्थाने तुर्य नियोजयेत् ।
अङ्कविन्यासप्रकारमाह-एकाङ्केति । सर्वासां पङ्क्तीनाम् , आद्याद्यकोष्ठा ; वन्त: एकाङ्क: कार्याः । प्रथमपङ्क्तिगः द्वितीयः कोष्ठः द्वयङ्कवान् ; द्वयङ्कयुक्तः कार्यः । प्रथमपङ्क्तेः अन्ये कोष्टाः, अन्त्योपान्त्यषष्टाङ्कयोगिनः ; अन्त्योपान्त्यषष्ठानाम् , अधःपङ्क्तिः तुर्याङ्कसंयुतः यो लेखनीयः। अन्यासां पङ्क्तीनां द्वितीयादिकोष्ठकेषु चतुर्थोङ्काऽधस्तनाङ्कसहितः, अन्त्योपान्त्यषष्ठानां योगो लेख्य: । लघुस्थाने गुरुः । अन्यत् लघुमेरुवत् । प्रतिनिधेः सत्त्वात् , ऊर्ध्वपङ्क्तौ अध:कोष्ठे गुरुहीनाः, द्वितीयकोष्ठे एकगुरवः । तृतीयादिकोष्ठे द्वयादिगुरवः । अन्त्यकोष्ठे सर्वगुरव इति सर्वाङ्कसंगते: संख्यापरिज्ञानमित्यादिलघुमेरुवज्ज्ञेयम् ॥ -३५१-३५४ ॥
इति गुरुमेरुः
(क०) अथ प्लुतमेरुं लक्षयति-प्लुतमेरावित्यादि । अधःपङ्क्तेः परा तदपेक्षया पञ्चकोष्ठोनिता कार्या । अत्राप्यधःपङ्क्तिं सप्तकोष्ठिकां कृत्वा तत्परां पक्तिं तस्याः षष्ठ्यादिकोष्ठैः समानकोष्ठां लिखेत् । सात्र द्विकोष्ठा भवति । तत्पराः; तृतीयादयः पङ्क्तयः ; स्वस्वपूर्वातः ; द्वितीयादेः पङ्क्तेः । षट्पट्कोष्ठोनितामता इति । तृतीया पङ्क्तिः द्वितीयपङ्क्तेः षट्कोष्ठोनिता कार्या । तथा चतुर्थी पङ्क्तिः तृतीयपङ्क्तेः षट्कोष्ठोनिता कार्या । एवं पञ्चम्यादीर्यथेष्टं लिखेत् । अथाङ्कलेखनमाह-अध:पङ्क्तो वित्यादि । षष्ठाङ्कस्थाने तुर्य नियोजयेदिति । अधःपड़तौ; षष्ठं त्यजेदित्यर्थः । शेषं तु गुरुमेरुवदित्यतिदेशे कावन्त आद्याद्यकोष्ठा इति, प्रथमपक्तिगो द्वितीयो द्वयङ्कवानिति, अध:पङ्क्तौ प्रतिनिधेः सत्त्वम् । परपङ्क्तिषु ;
Scanned by Gitarth Ganga Research Institute